SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे भाषानुवादसहिते प्रथमाध्ययने प्रथमोदेशके गाथा ८ परसमयवक्तव्यतायां चार्वाकाधिकारः आत्माऽस्ति तद्ग्राहकप्रमाणाभावात् प्रमाणं चात्र प्रत्यक्षमेव, नानुमानादिकं, तत्रेन्द्रियेण साक्षादर्थस्य सम्बन्धाभावाद् व्यभिचारसंभवः । सति च व्यभिचारसंभवे सदृशे च बाधासंभवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासः । तथा चोक्तम् “हस्तस्पर्शादिवान्धेन विषमे पथि धावता | अनुमानप्रधानेन विनिपातो न दुर्लभः" ||१|| अनुमानं चात्रोपलक्षणमागमादीनामपि, साक्षादर्थसंबन्धाभावाद्धस्तस्पर्शनेनेव प्रवृत्तिरिति । तस्मात् प्रत्यक्षमेवैकं प्रमाणं, तेन च भूतव्यतिरिक्तस्यात्मनो न ग्रहणं, यत्तु चैतन्यं तेषूपलभ्यते, तद्भूतेष्वेव कायाकारपरिणतेष्वभिव्यज्यते, मद्याङ्गेषु समुदितेषु मदशक्तिवदिति । तथा न भूतव्यतिरिक्तं चैतन्यं, तत्कार्य्यत्वाद्, घटादिवदिति । तदेवं भूतव्यतिरिक्तस्याऽऽत्मनोऽभावाद्भूतानामेव चैतन्याभिव्यक्तिः, जलस्य बुबुदाभिव्यक्तिवदिति । केषाञ्चिल्लोकायतिकानामाकाशस्याऽपि भूतत्वेनाभ्युपगमाद्भूतपञ्चकोपन्यासो न दोषायेति । ननु च यदि भूतव्यतिरिक्तोऽपरः कश्चिदात्माख्यः पदार्थो न विद्यते कथं तर्हि मृत इति व्यपदेश इत्याशङ्कयाह अथैषां कायाकारपरिणतौ चैतन्याभिव्यक्तौ सत्यां तदूर्ध्वं तेषामन्यतमस्य 'विनाशेऽपगमे' वायोस्तेजसश्चोभयो 'देहिनो' देवदत्ताख्यस्य 'विनाशोऽपगमो' भवति, ततश्च मृत इति व्यपदेशः प्रवर्तते न पुनर्जीवापगम इति भूताव्यतिरिक्त चैतन्यवादिपूर्वपक्ष इति । अत्र प्रतिसमाधानार्थं नियुक्तिकृदाह“पञ्चण्हं संजोए अण्णगुणाणं च चेयणाइगुणो । पंचिंदियठाणाणं ण अण्णमुणियं मुणइ अण्णो' ॥३३॥ नि० पञ्चानां पृथिव्यादीनां भूतानां संयोगे कायाकारपरिणामे चैतन्यादिकः, आदिशब्दाद् भाषाचक्रमणादिकश्च गुणो न भवतीति प्रतिज्ञा, अन्यादयस्त्वत्र हेतुत्वेनोपात्ताः, दृष्टान्तस्त्वभ्यूह्यः, सुलभत्वात्तस्य नोपादानम् । तत्रेदं चार्वाकः प्रष्टव्यः- यदेतद्भूतानां संयोगे चैतन्यमभिव्यज्यते तत्किं तेषां संयोगेऽपि स्वातन्त्र्य एवाहोस्वित् परस्परापेक्षया पारतन्त्र्य इति ? । किं चातः ? । न तावत्स्वातन्त्र्ये, यत आह "अण्णगुणाणं चेति' चैतन्यादन्ये गुणा येषां तान्यन्यगुणानि तथाहि- आधारकाठिन्यगुणा पृथिवी, द्रवगुणा आपः पक्तृगुणं तेजः, चलनगुणो वायुः, अवगाहदानगुणमाकाशमिति । यदिवा प्रागभिहिता गन्धादयः पृथिव्यादीनामेकैकपरिहान्याऽन्ये गुणाश्चैतन्यादिति, तदेवं पृथिव्यादीन्यन्यगुणानि । 'च' शब्दो द्वितीयविकल्पवक्तव्यतासूचनार्थः चैतन्यगुणे साध्ये पृथिव्यादीनामन्यगुणानां सतां चैतन्यगुणस्य पृथिव्यादीनामेकैकस्याप्यभावान्न तत्समुदायाच्चैतन्याख्यो गुणः सिद्धयतीति । प्रयोगस्त्वत्र- भूतसमुदायः स्वातन्त्र्ये सति धर्मित्वेनोपादीयते, न तस्य चैतन्याख्यो गुणोऽस्तीति साध्यो धर्मः, पृथिव्यादीनामन्यगुणत्वात्, यो योऽन्यगुणानां समुदायस्तत्र तत्रापूर्वगुणोत्पत्तिर्न भवतीति । यथा सिकतासमुदाये स्निग्धगुणस्य तैलस्य नोत्पत्तिरिति, घटपटसमुदाये वा न स्तम्भाद्याविर्भाव इति, दृश्यते च काये चैतन्यं, तदात्मगुणो भविष्यति न भूतानामिति । अस्मिन्नेव साध्ये हेत्वन्तरमाह- "पंचिंदियठाणाणं''त्ति, पञ्च च तानि स्पर्शनरसनघ्राणचक्षुःश्रोत्राख्यानीन्द्रियाणि तेषां स्थानानिअवकाशास्तेषां चैतन्यगुणाभावान्न भूतसमुदाये चैतन्यम्-इदमत्र हृदयं-लोकायतिकानां हि अपरस्य द्रष्टुरनभ्युपगमादिन्द्रियाण्येव द्रष्ट्रणि, तेषां च यानि स्थानानि-उपादानकारणानि तेषामचिद्रूपत्वान्न भूतसमुदाये चैतन्यमिति । इन्द्रियाणां चामूनि स्थानानि, तद्यथा- श्रोत्रेन्द्रियस्याकाशं सुषिरात्मकत्वात्, घ्राणेन्द्रियस्य पृथिवी तदात्मकत्वात्, चक्षुरिन्द्रियस्य तेजस्तद्रूपत्वात्, एवं रसनेन्द्रियस्याप: स्पर्शनेन्द्रियस्य वायुरिति । प्रयोगश्चात्र नेन्द्रियाण्युपलब्धिमन्ति, तेषामचेतनगुणारब्धत्वात्, यद्यदचेतनगुणारब्धं तत्तदचेतनं यथा घटपटादीनि, एवमपि च भूतसमुदाये चैतन्याभाव एव साधितो भवति । पुनर्हेत्वन्तरमाह- "ण अण्णमुणियं मुणइ अण्णोत्ति" इहेन्द्रियाणि प्रत्येकभूतात्मकानि तान्येवापरस्य द्रष्टुरभावाद् द्रष्ट्रणि, तेषां च प्रत्येकं स्वविषयग्रहणादन्यविषये चाप्रवृत्तेर्नान्यदिन्द्रियज्ञातमन्यदिन्द्रियं जानातीति, अतो मया पञ्चाऽपि विषया ज्ञाता इत्येवमात्मकः संकलनाप्रत्ययो न प्राप्नोति, अनुभूयते चायं, तस्मादेकेनैव द्रष्ट्रा भवितव्यम्,
SR No.032699
Book TitleSutrakritanga Sutra Part 01
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy