________________
सूत्रकृताङ्गेभाषानुवादसहिते प्रथमाध्ययने प्रथमोदेशके गाथा ८
परसमयवक्तव्यतायां चार्वाकाधिकारः तस्यैव च चैतन्यं न भूतसमुदायस्येति । प्रयोगः पुनरेवं- न भूतसमुदाये चैतन्यं तदारब्धेन्द्रियाणां प्रत्येकविषयग्राहित्वे सति संकलनाप्रत्ययाभावात, यदि पुनरन्यगृहीतमप्यन्यो गह्णीयाद देवदत्तगृहीतं यज्ञदत्तेनाऽपि गृह्येत, न चैतद् दृष्टमिष्टं वेति । ननु च स्वातन्त्र्यपक्षेऽयं दोषः, यदा पुनः परस्परसापेक्षाणां संयोगपारतन्त्र्याभ्युपगमेन भूतानामेव समुदितानां चैतन्याख्यो धर्मः संयोगवशादाविर्भवति, यथा किण्वोदकादिषु मद्याङ्गेषु समुदितेषु प्रत्येकमविद्यमानाऽपि मदशक्तिरिति, तदा कुतोऽस्य दोषस्यावकाश इति ? अत्रोत्तरं गाथोपात्तचशब्दाक्षिप्तमभिधीयते- यत्तावदुक्तं यथा 'भूतेभ्यः परस्परसव्यपेक्षसंयोगभाग्भ्यश्चैतन्यमुत्पद्यते, तत्र विकल्पयामः- किमसौ संयोगः संयोगिभ्यो भिन्नोऽभिन्नो वा ? भिन्नश्चेत्षष्ठभूतप्रसङ्गो, न चान्यत् पञ्चभूतव्यतिरिक्तसंयोगाख्यभूतग्राहकं भवतां प्रमाणमस्ति, प्रत्यक्षस्यैवैकस्याभ्युपगमात्, तेन च तस्याग्रहणात्, प्रमाणान्तराभ्युपगमे च तेनैव जीवस्याऽपि ग्रहणमस्तु । अथ अभिन्नो भूतेभ्यो संयोगः, तत्राप्येतच्चिन्तनीयम्- किं भूतानि प्रत्येकं चेतनावन्त्यचेतनावन्ति वा ? यदि चेतनावन्ति तदा एकेन्द्रियसिद्धिः, तथा (च) समुदायस्य पञ्चप्रकारचैतन्यापत्तिः । अथाचेतनानि, तत्र चोक्तो दोषो, न हि यद्यत्र प्रत्येकमविद्यमानं तत् तत्समुदाये भवदुपलभ्यते, सिकतासु तैलवदित्यादिना । यदप्यत्रपूर्वोक्तं-यथा मद्याङ्गेष्वविद्यमानाऽपि प्रत्येकं मदशक्तिः समुदाये प्रादुर्भवतीति, तदप्ययुक्तं, यतस्तत्र किण्वादिषु या च यावती च शक्तिरुपलभ्यते, तथाहि- किण्वे बुभुक्षापनयनसामर्थ्य भ्रमिजननसामर्थ्य च, उदकस्य तृडपनयनसामर्थ्यमित्यादिनेति, भूतानां च प्रत्येकं चैतन्यानभ्युपगमे दृष्टान्तदाान्तिकयोरसाम्यम् । किञ्चभूतचैतन्याभ्युपगमे मरणाभावो, मृतकायेऽपि पृथिव्यादीनां भूतानां सद्भावात् । नैतदस्ति तत्र मृतकाये वायोस्तेजसो वाऽभावान्मरणसद्धाव इत्यशिक्षितस्योल्लापः, तथाहि- मृतकाये शोफोपलब्धेर्न वायोरभावः, कोथस्य च पक्तिस्वभावस्य दर्शनान्नाग्नेरिति । अथ सूक्ष्मः कश्चिद् वायुविशेषोऽग्निर्वा ततोऽपगत इति मतिरिति, एवं च जीव एव नामान्तरेणाभ्युपगतो भवतीति, यत्किञ्चिदेतत । तथा न भतसमदायमात्रेण चैतन्याविर्भावः. पथिव्यादिष्वेकत्र व्यवस्थापितेष्वपि चैतन्यानपलब्धेः। अथ कायाकारपरिणौ सत्यां तदभिव्यक्तिरिष्यते, तदपि न, यतो लेप्यमयप्रतिमायां समस्तभूतसद्धावेऽपि जडत्वमेवोपलभ्यते। तदेवमन्वयव्यतिरेकाभ्यामालोच्यमानो नायं चैतन्याख्यो गुणो भूतानां भवितुमर्हति । समुपलभ्यते चायं शरीरेषु, तस्मात् पारिशेष्यात् जीवस्यैवायमिति स्वदर्शनपक्षपातं विहायाङ्गीक्रियतामिति ॥३३॥
यच्चोक्तं प्राक्- 'न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्ग्राहकप्रमाणाभावात्, प्रमाणं चात्र प्रत्यक्षमेवैकमित्यादि,' तत्र प्रतिविधीयते- यत्तावदुक्तं 'प्रत्यक्षमेवैकं प्रमाणं नानुमानादिक' मित्येतदनुपासितगुरोर्वचः, तथाहि- अर्थाविसंवादकं
प्रत्यक्षस्य च प्रामाण्यमेवं व्यवस्थाप्यते-काश्चित्प्रत्यक्षव्यक्तीर्धर्मित्वेनोपादाय प्रमाणयति- "प्रमाणमेताः, अर्थाविसंवादकत्वाद्, अनुभूतप्रत्यक्षव्यक्तिवत्", न च ताभिरेव प्रत्यक्षव्यक्तिभिः स्वसंविदिताभिः परं व्यवहारयितुमयमीशः, तासां स्वसंविन्निष्ठत्वान्मूकत्वाच्च प्रत्यक्षस्य । तथा नानुमानं प्रमाणमित्यनुमानेनैवानुमाननिरासं कुर्वंश्चार्वाकः कथं नोन्मत्तः स्याद् ? एवं ह्यसौ तदप्रमाण्यं प्रतिपादयेद् यथा- नानुमानं प्रमाणं विसंवादकत्वात्, अनुभूतानुमानव्यक्तिवदिति, एतच्चानुमानम्, अथ परप्रसिद्धयैतदुच्यते, तदप्ययुक्तं, यतस्तत्परप्रसिद्धमनुमानं भवतः प्रमाणमप्रमाणं वा ? प्रमाणं चेत्कथमनुमानमप्रमाणमित्युच्यते, अथाप्रमाणं कथमप्रमाणेन सता तेन परः प्रत्याय्यते ?, परेण तस्य प्रामाण्येनाभ्युपगतत्वादिति चेत्, तदप्यसाम्प्रतं, यदि नाम परो मौढयादप्रमाणमेव प्रमाणमित्यध्यवस्यति, किं भवताऽतिनिपुणेनाऽपि तेनैवासौ प्रतिपाद्यते ? यो ह्यज्ञो गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनाऽपि बुद्धिमता गुड एव दीयते ?, तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्रामाण्ये व्यवस्थापयतो भवतोऽनिच्छतोऽपि बलादायातमनुमानस्य प्रामाण्यम् । तथा स्वर्गापवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमाणेन करोति ?, न तावत्प्रत्यक्षेण प्रतिषेधः कत्तुं पार्य्यते, यतस्तत्प्रत्यक्षं प्रवर्तमानं वा तनिषेधं विदध्यानिवर्तमानं वा ?, न तावत्प्रवर्तमानं, तस्याभावविषयत्वविरोधात्, नाऽपि
तस्तच्च नाऽस्ति तेन च प्रतिपत्तिरित्यसङ्गतं. तथाहि- व्यापकविनिवत्तौ व्याप्यस्याऽपि (वि) निवत्तिरिष्यते. न चार्वाग्दर्शिप्रत्यक्षेण समस्तवस्तुव्याप्तिः सम्भाव्यते तत्कथं प्रत्यक्षविनिवृत्तौ पदार्थव्यावृत्तिरिति ? तदेवं स्वर्गादेः प्रतिषेधं कुर्वता चार्वाकेणाऽवश्यं प्रमाणान्तरमभ्युपगतम् । तथाऽन्याभिप्रायविज्ञानाभ्युपगमादत्र स्पष्टमेव प्रमाणान्तरमभ्युपगतम, अन्यथा कथं परावबोधाय शास्त्रप्रणयनमकारि चार्वाकणेत्यलमतिप्रसङ्गेन । 1. प्येत प्र० । 2. चार्वाकदर्शित० । 3. संसाध्यते प्र० ।