________________
વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર
मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहार
साकारमन्त्रभेदाः ॥२१॥
स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मान
प्रतिरूपकव्यवहाराः ॥२२॥
परविवाहकरणेत्वरपरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडा
तीव्रकामाभिनिवेशा: ॥२३॥
क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥ २४ ॥ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥ २५ ॥
आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥२६॥ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधिकत्वानि ॥२७॥
योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥२८॥
अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादर
स्मृत्यनुपस्थापनानि ॥२९॥
सचित्तसम्बद्धः संमिश्राभिषवदुष्पाहाराः ॥३०॥
॥३१॥
सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ॥३२॥
अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥३३॥ विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ||३४||
अष्टमोऽध्यायः
૨૧
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥१ ॥ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते ॥२॥
स बन्धः ॥३॥