________________
૨૦
વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર सप्तमोऽध्यायः
हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥१॥ देशसर्वतोऽणुमहती ॥२॥
तत्स्थैर्यार्थं भावनाः पञ्च पञ्च ॥३॥ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् ॥४॥
दुःखमेव वा ॥५॥
मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्य
मानाविनेयेषु ॥६॥
जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ॥७॥ प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥८ ॥
असदभिधानमनृतम् ॥९॥
अदत्तादानं स्तेयम् ॥१०॥
मैथुनमब्रह्म ॥११॥
मूर्च्छा परिग्रहः ॥१२॥
निःशल्यो व्रती ॥१३॥
अगार्यनगारश्च ॥१४॥
अणुव्रतोऽगारी ॥ १५ ॥
दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोग
परिमाणातिथिसंविभागव्रतसम्पन्नश्च ॥ १६ ॥
मारणान्तिकीं संलेखनां जोषिता ॥ १७ ॥ शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवा:
सम्यग्दृष्टेरतिचाराः ॥१८॥
व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥१९॥ बन्धवधच्छविच्छेदातिभारारोपणान्नपाननिरोधाः ॥२०॥