________________
૧૨
વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર
एकं द्वौ वाऽनाहारकः ॥३१॥ सम्मूर्छनगर्भोपपाता जन्म ॥३२॥
सचित्तशीतसंवृताः सेतरा मिश्राश्चकशस्तद्योनयः ॥ ३३ ॥
जराखण्डपोतजानां गर्भः ॥३४॥ .
नारकदेवानामुपपातः ॥ ३५ ॥
शेषाणां सम्मूर्छनम् ॥३६॥
औदारिकवैक्रियाऽऽहारकतैजसकार्मणानि शरीराणि ॥३७॥
परं परं सूक्ष्मम् ॥३८॥
प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ॥३९॥
अनन्तगुणे परे ॥ ४० ॥
अप्रतिघाते ॥४१॥
अनादिसम्बन्धे च ॥४२॥
सर्वस्य ॥४३॥
तदादीनि भाज्यानि युगपदेकस्याचतुर्भ्यः ॥४४॥
निरुपभोगमन्त्यम् ॥४५॥
गर्भसम्मूर्छनजमाद्यम् ॥४६॥
वैक्रियमौपपातिकम् ॥४७॥
लब्धिप्रत्ययं च ॥४८॥
शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥ ४९ ॥ नारकसम्मूर्छिनो नपुंसकानि ॥५०॥
न देवाः ॥५१॥
औपपातिकचरमदेहोत्तमपुरुषाऽसंख्येयवर्षायुषो - ऽनपवर्त्यायुषः ॥५२॥