________________
વાચકવર્ય ઉમાસ્વાતિ કૃત તત્ત્વાર્થાધિગમસૂત્ર
जीवभव्याभव्यत्वादीनि च ॥७॥ उपयोगो लक्षणम् ॥८॥ स द्विविधोऽष्टचतुर्भेदः ॥९॥ संसारिणो मुक्ताश्च ॥१०॥ समनस्काऽमनस्काः ॥११॥ संसारिणस्त्रसस्थावराः ॥१२॥ पृथिव्यम्बुवनस्पतयः स्थावराः ॥१३॥ तेजोवायू द्वीन्द्रियादयश्च त्रसाः ॥१४॥ पञ्चेन्द्रियाणि ॥१५॥ द्विविधानि ॥१६॥ निर्वत्त्युपकरणे द्रव्येन्द्रियम् ॥१७॥ लब्युपयोगौ भावेन्द्रियम् ॥१८॥ उपयोगः स्पर्शादिषु ॥१९॥ स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥२०॥ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥२१॥ श्रुतमनिन्द्रियस्य ॥२२॥ वाय्वन्तानामेकम् ॥२३॥ कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥२४॥ संज्ञिनः समनस्काः ॥२५॥ विग्रहगतौ कर्मयोगः ॥२६॥ अनुश्रेणि गतिः ॥२७॥ अविग्रहा जीवस्य ॥२८॥ विग्रहवती च संसारिणः प्राक् चतुर्थ्यः ॥२९॥ एकसमयोऽविग्रहः ॥३०॥