SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ लौगाक्षिस्मृतिः राक्षसस्याथचाम्भस्याज्जेमा चापि नलस्य च । महिमा पिङ्गलस्याथ कालयुक्तेर्वरिमा च ॥ सिद्धार्थनश्च प्रथिमा शौद्रिणो वर्म तत्क्रमात् । दुर्मतेर्दाघुयाचेति निर्णयःक्रमतोमतः अथ वृद्ध दुन्दुभः स्याद्रुधिरोत्कारिणो वृद्धिः । सत्यं रक्ताक्षिणश्चेति श्रद्धाऽथक्रोधनस्य च ॥ अक्षयस्य जगच्चेति प्रभवस्य धनं तथा । विभवस्य वशः प्रोक्तः शुक्लस्य विषिरेव च प्रमोदूतस्य च क्रीडा प्रजोत्पत्तोंद एव च । आङ्गिरसस्य जातिं स्यात् श्रीमुखस्य जनिष्माणम् ।। एवं भूयः श्राद्धसर्व यजुषां क्रमतो भवेत् । आवृत्तिश्च तथा प्रोक्ता पौनः पुन्येन नान्यथा ॥ सोमकानि यजूंष्येवं वत्सरीयाणि तानि वै । वत्सरा ऋषयस्तेषां तद्दृष्टत्वात्तथा पुरा मन्त्राणामृषयोज्ञेयाः देवता भगवान्विभुः । संकर्षणस्वरूपोऽयं योऽसावादित्य उच्यते उत्तमः पुरुषो दिव्यः देवता रुद्र उच्यते । एतन्मन्त्रात्मकः कालः यज्ञश्चापि तथाविधः मन्त्रकालाखिलः सर्वमापोऽयं भगवान्हरिः। तुष्टये देवदेवस्य सदा यज्ञैर्यजेत वै॥ ब्राह्मणोऽतो नित्यमेव यज्ञमध्ये वदामि वः । उत्तमः पैतृको यज्ञः तत्र सर्वेऽपि देवताः पितरश्चापि तुष्यन्ति ब्राह्मणोऽत्रादिकारणम् । महानाहवनीयः स्याच्छुचिः शौचसरस्वती ॥ स्थालीपाको यथा स्वानौ क्रियते श्रुतिचोदनात् । तथा खानौ खपाकान्नापैतृकं तत्समाचरेत् ॥ स्वपाकानश्राद्धकर्म योग्यताविधुरो द्विजः । सधः पातित्यमाप्नोति ब्राह्मण्यान्नात्र संशयः ।। दुर्लभे ब्राह्मणानां तु कदाचिदैवयोगतः । देशापत्सु जनापत्सु चोरशत्रुभयेष्वपि ।। विश्वान्देवान्कूर्चमुखे समावाह्य व वा न चेत् । त्यत्वा वा पैतृकं कर्म मात्रमग्ने यथाविधि ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy