________________
॥ श्रीगणेशायनमः॥
॥ अथ ॥
॥ मार्कण्डेयस्मृतिः॥
तत्रादौ-वर्णाश्रमधर्म वर्णनम् मार्कण्डेयं (बहु ) ब्रह्मकल्पदर्शिनमेत्य ते ।
महात्मानः शौनकाधाः सर्वज्ञमृषयोऽब्रुवन् । भगवस्त्वं बहुब्रह्मकल्पदर्शी विशेषवित् । अतस्त्वं सर्वदेवर्षिः योगियज्वाधिको मः ॥ सर्ववर्णाश्रमाचारधर्माधर्मप्रवर्तकान् । जानासि कृतसंवादस्तैरत्यन्तं महात्मभिः॥ अनेकब्रह्मकल्पानां संप्रदायपरार्थगः । पुनर्वेदार्थतत्वज्ञः क्रियाकल्पविशेषवित् ॥ इतिहासपुराणज्ञः स्मृतितत्त्वरहस्यगः । आपत्कालैककर्तव्यमर्त्यधर्मविभागवित् ।। दरिद्रसंपत्समयसदसत्कार्यनिर्णये। परिच्छेत्ता विशेषेण मुख्यामुख्यादितत्ववित् ॥ वस्मात्त्वामधुना सर्वे संघीभूयाचिराद्वयम् । समालोच्यविधानेननिश्चित्य च पुनःपुनः॥ पृच्छामः सर्वधर्माश्च कर्तव्यान्मोक्षसाधनान् । सर्ववर्णाश्रमकृते निःशेषयुगसमताम् ॥ अतस्त्वं कृपयास्मासु तान् सम्यग्वक्त मर्हसि । इत्येवं स कृतप्रश्नः शौनकाय महर्षिभिः मार्कण्डेयो महाभागः सर्वदर्शी कृपामयः। तर्हि शृणुध्वमित्युक्त्वा स्मितपूर्व वचोऽब्रवीत्
ब्रह्मादयोऽपि निखिलाः किंचिज्ज्ञा एव केवलम् । परं तु तत्र सर्वेषां रक्षोमा मृतान्धसाम् ॥११॥