________________
१०४
मार्कण्डेयस्मृतिः प्रन्थार्चनपरा ये च प्रहाणां पूजकास्तथा । कादेनापि मृता ये च ते नराः खर्गगामिनः ॥
अग्निहोत्री च सत्री च कूपकर्ता तटाककृत् ।
लिंगप्रतिष्ठाकर्ता च भक्तः शास्त्रवशे स्थितः ॥ विष्णुश्चाराधितो यैस्तु ज्ञाननिष्ठाश्च ये द्विजाः । प्रणवव्याहृतियुक्तगायत्रीनिरताः सदा
मनसा कर्मणा वाचा कर्मण्येवानुचिन्तकाः ।
न पापमतिमिच्छन्ति तेऽपि यान्त्यमरावतीम् ॥ निराहारा महाशीलाः ब्रह्मचर्यादिलोलुपाः । त्यजन्ति देहधर्मज्ञाः विषयेन्द्रियनिर्जिताः
एकाग्रमनसः शान्ताः तेऽपि यान्त्यमरावतीम् । गंगानदीं महापुण्यां श्रयन्ति च धियैकया ॥. जपन्ति तत्र ये मन्त्रान् परदारविवर्जिताः ।
ब्राह्मणाय तु ये कन्यां प्रयच्छन्ति विधानतः ॥ ये तु दीपं प्रयच्छन्ति तेऽपि यान्त्यमरावतीम् । गङ्गाजले प्रयागे वा केदारे पुष्करे तथा महापथे प्रभासे च मृता यान्त्यमरावतीम् । द्वारवत्यां कुरुक्षेत्रे योगाभ्यासेन ये मृताः हरीती (१) रं येषां मरणे समुपस्थिते । पूजयित्वा हरिं ये तु भूमौ दर्भास्तिलैस्सह ॥
तिलान् विकीर्य लोहे तु दत्वा धेनुं पयस्विनीम् ।
ये मृताः कृतिनः सन्तस्तेऽपि यान्त्यमरावतीम् ॥ उत्पाद्य पुत्राः संस्थाप्य पितृपैतामहापथे । निर्मला निष्कलङ्का ये मृता यान्त्यमरावतीम् सर्वभूतदयावन्तः विश्वास्याः सर्वजन्तुषु । त्यक्तहिंसाः सदाचाराः सन्तुष्टाः स्वधनेन च .
धर्मलब्धार्थभोक्तारस्तेऽपि यान्त्यमरावतीम् ॥ मातृवत्स्वसृवच्चैव नित्यं दुहितवञ्च ये । परदारेषु वर्तन्ते तेऽपि यान्त्यमरावतीम् ॥ अनृतं ये न भाषन्ते कटुकं निष्ठुरं तथा । स्वागतेनाभिभाषन्ते तेऽपि यान्त्यमरावतीम्
अरण्ये विजने नष्टं परस्वं दृश्यते यदा।
मनसापि न लिप्यन्ते तेऽपि यान्त्यमरावतीम् ॥ तथैव परदारान् वै कामवृत्तं रहोगताः । मनसापि न हिंसन्ति तेऽपि यान्त्यमरावतीम् ।।