________________
श्राद्धप्रकरणवर्णनम्
२५४५ दर्शादिकं तु यच्छाद्धवृद्धि तत्प्रतिवत्सरं । येन केन विधानेन कुर्यादित्येव वै. मनुः ॥१६॥ शक्तौसत्यां विधानेन कुर्यादेव न संशयम् । दर्शादि सर्वश्राद्धानि मुख्यान्नेन तु(?)सन्ततं ॥१६॥ आमादिनानुकरणममुख्यमिति वै मनुः । यदनुष्ठानं तत्सर्वानुष्ठानं जायतेतराम् ॥१७०।। तादृशं परमं दिव्यं दशं कुर्यादतंद्रितः । येनकेनाप्युपायेन प्रतिमासं विधानतः ॥१७१।। पितृणां तृप्तयेऽतीव द्विजो धर्मपरोऽनिशम् । दर्शानुष्ठानमात्रेण सर्वश्राद्धानि केवलम् ॥१७२॥ कृतानि सम्भवं येन नात्र कार्या विचारणा । दर्शानुष्ठानरहितः येनकेनाप्युपायतः ॥१७३।। सर्वश्चाण्डालतां याति पितृश्राद्धनमस्तुतःद्धान्नवर्जितः । आपद्यपि पितृश्राद्धमनेनैव समाचरेत् ॥१७४|| न स्वर्णेन न चामेन(?)मंत्रश्रद्धादिभिर्विना(भि)स्तु वा । विभवे सति दर्शाख्यं श्राद्ध मंत्रेन(?)तश्चरेत् ॥१७॥ न चैवामेन हेम्ना वा मान्त्रैर्यवतिलादिभिः (१) । रक्षोदाहाभिर्वान कृत्यैः पिण्डाग्नौकरणादिभिः ।।६।। उदकेनापि वा कुर्यादन्यथापतितोभवेत् । महालयकरोविप्रःः प्रतिसंवत्सरं तथा ॥१७७।। पित्रोःप्रत्याद्भि(ह्रि)कश्राद्ध पितृणां तत्प्रसादतः । गयाश्राद्धफलं नित्यमवशाल्लभतेऽखिलम् ॥१७८।।
१६०