________________
३१ १८
भारद्वाजस्मृतिः इत्युक्तानेनगायत्रिं अनुवाकेन वै द्विजः । उद्वास्याधनमस्कुर्याञ्चतुः संध्यादि देवताः ॥११४॥ संध्यापुरस्ताद्गायत्रि सावित्रि च सरस्वती । एतत्संध्यादयः प्रोक्ताः चतसोदेवताः क्रमात् ॥११॥ स्वस्वनाम चतुर्थ्यत्तं प्रणवादि नमोत्तकं । मंत्रमासामिह प्रोक्तं प्रणमेत्स्वस्वमंत्रतः ॥११६॥ केचित्तु मुनयः प्राहुः प्रतिमंत्रं प्रदक्षिणं । कुर्वन्प्रणामं कुर्वीता ताभ्याः भक्तितो द्विजा ॥११७॥ मित्रस्येत्यादिभिग्भिः विस्पष्टोदित मंडलं । आदित्यंतिमृभिर्देव उपतिष्ठेदधद्विजः ॥११८॥ असामृषिविश्वामित्रः देवता वै दिवाकरः।। भूमिगायत्र्यमाद्यस्यत्रिष्टुभाविहपश्चिमौ ॥११६ ।। इत्येवमुक्त्वोपस्थाय ततस्थमभिवादयेत् । अभिवादनमंत्रेण सद्भक्त्या लोकसाक्षिणं ॥१२०।। सगोत्रनामशर्माहं भी पादैरभिवादयेत् । इत्येवं भाषमाणेयं मंत्रमर्काभिवादने ॥१२॥ सर्वाभ्यो देवताभ्यश्चेत्येतत्प्रणव संयुतं । उक्त्वानमोनमयिति प्रणमेत्सर्व देवताः ॥१२२।। कामोकाषिन्मनपुरकापिदेत्येतत्पूर्वमंत्रवत् । उक्त्वा प्रदक्षिणे नैव नमस्कुर्यात्रयितनुं ॥१२३।। प्राची च दक्षिणांचाध प्रतीचीचोत्तरोधकं । अधरांचात्तरिक्षं च एताः सप्तादितादिशः ॥१२४||