________________
२८३४
शाण्डिल्यस्मृतिः ये तोषयन्ति निरतं पञ्चकालपरायणान् । के सकामास्तत्फलं यान्ति निष्कामाः परमं पदम् ।।४।। गृहे भागवते प्राप्ते तदिष्टमुपलक्ष्य च । अञ्जसा तत्प्रियं कार्य यथार्ह श्रमनुत्तये ॥५५।। आसनरर्यपाद्याद्ययंजनरुचितोक्तिभिः । पादसंवाहनाभ्यङ्गरतिथिः पूजयेत्प्रियम् ।।५६।। प्रहृथ्वदनं दत्वा वाक्यं प्रियमथासनम् । प्रदेयमञ्जसा नित्यं संप्राप्ते भगवत्परे ।।५७|| पूज्या नित्यं भगवतस्सन्निधाने विशेषतः । अनन्याः पञ्चकालज्ञा न कदाचिदथेतरे ।।५८।। अन्नमम्यूनिवस्त्राणि पात्राणि स्रफलादिकम् । इष्टमिष्टावशिष्टं वा दद्यान्ना पञ्चकालिने ।।५।। सर्वपापप्रशमनं सर्वदुःखनिवारणम् । भगवद्भुक्तमन्नाद्यमयोग्येभ्यो न योजयेत् ॥६०।। अयोग्ययोजनादेव योग्ये चाप्यनियोजयेत् । भगवद्भुक्त भा(ण्डा)नां प्रायश्चित्ती भवेन्नरः ॥६१।। भगवद्भुक्तमन्नाद्यमज्ञानाद्योऽवमन्यते । इह निकता प्राप्य जायते स पुरीषभुक् ॥६२।। पवित्रं भगवद्भुक्त सेवयाभ्युपयुञ्जते । भवन्त्यरोगास्सुखिनः पापदोषविवर्जितम् ।।६।। आराध्यैव जगन्नाथं तच्छेषं नापरा अपि । त्यक्तभक्ताचेना व्यर्था अरसा ऊपराम्बुवत् ।।६४||