________________
श्राद्धषुपाकानांगर्हितत्ववर्णनम् २७४१ सर्वश्राद्धषु सर्वत्र रण्डापाको विशेषतः। गर्हितः स्यात्तथा वन्ध्यापाकोऽपि परिकीर्तितः ॥४२१।। स्वसा माता तथा श्वश्रूर्मातुलानीसुता पिता। पितृव्यपत्नी वा भार्या भगिनी वा तथाविधा ॥४२२॥ कीणां तु पुरोक्तानामभावे विधवा अपि । एता ग्राह्याः पाककार्ये श्राद्धकर्मणि सङ्कटे ॥४२३॥ ज्ञातिभार्याश्च निखिला: प्रत्यासन्नास्तथाविधाः । सपिण्डभार्यास्साध्व्यश्चेदग्राह्या एवेति शण्डिलः ॥४२४|| श्राद्धपाकक्रियायास्ताः प्राह श्रीमानसौ महान् । पुत्रिणीनां न रण्डात्वं निखिलैनिश्चितं पुरा ॥४२॥ वन्ध्यात्वं जातपुत्राणां न कदाचन विद्यते । कन्यकानुपनीतानां न कर्माहत्वमूचिरे ॥४२६।।
॥ मृतकार्यकर्तुरनुकल्पनिषेधः ॥ सति कर्जन्तरेभूयो न चेत्तेषां तु कर्तृता । अस्त्येवेति तदा प्राह मृतकार्ये विशेषतः ॥४२७|| स्वधानिनयनादेव मन्त्रकार्याखिलामता। अथवा तव्रतःकक्षान्तरनिष्ठस्तु कश्चन ॥४२८।। तत्कार्यमखिलं कुर्यात्तेन तत्सुकृतं भवेत् । विनैव वरणं तूष्णीं कर्तु:स्वस्य स्वयं यदि ॥४२६।। तत्कर्तव्यत्वेन कुर्यात्कर्म तत्स्याग्निरर्थकम् । यस्य कस्यापि नष्टस्य दूरे कर्तरि संस्थिते ॥४३०॥