SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २७०२ लोहितस्मृतिः ॥ बहुभार्यस्यौपासनादौ विशेषः॥ ब्रह्मचर्यनिवृत्तिस्सा' यस्यास्समुदपद्यत । धर्मपत्नी सैव लोके कथिता तत्समा च सा ॥६॥ भर्तुरर्धशरीरा च सर्वधर्मसमाश्रया। तद्विवाहसमुद्भूतो वहिनिखिलकर्मणाम् ॥१०॥ मन्त्रपूतो वेदजन्यः सर्वयागैकसाधकः । स एव हि प्रधानानिः ब्राह्मणस्यमहात्मनः ॥११॥ द्वितीयाद्यमयः शिष्टाः दुर्बलास्तत्समान तु । न ते वैदिककृत्यस्य तूष्णीका एव केवलम् ॥१२।। धर्मपत्नीवीनिहोत्रे स्मातं कर्माखिलं चरेत् । द्वितीयांपल्यमिषु चेत्तूष्णीकं कृत्स्नकर्म तत् ।।१३।। वेदोक्तमन्त्रतन्त्राणि न भवेयुः कदाचन । प्रत्यमावपि यत्नेन सायं प्रातस्समाहितः ॥१४॥ वेदोक्तमन्त्रैरखिलैः कुर्यादौपासनं बुधः । राजन्याद्यबलामीनां नित्यमोपासनं तु तत् ॥१२॥ ब्राह्मणेन तु कर्तव्यं ब्रीहिभिर्न तु तण्डुलैः । शूद्रकन्यौपासनं तु ब्राह्मणेन विपश्चिता ॥१६॥ यवैरमन्त्रकं नित्यं कर्तव्यमिति काश्यपः। पञ्चपल्यो ब्राह्मणस्य स्वजातो धर्मतो मताः ॥१७|| राजन्यवैश्ययोश्चापि स्वजातावेव वै तथा । त्रैवर्णिकानां सततं धर्मपत्नीधनञ्जयम् ॥१८॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy