________________
२६८८
विश्वामित्रस्मृतिः कराङ्गन्याससंयोगे षट्पदा त्रिपदा भवेत् । अङ्गुष्ठादिचतुर्वर्णमनुलोमक्रमेण च ॥५६॥ हृदयादिचतुर्वणं क्रमेणैव विलोमता। चतुर्वर्ण विना यस्तु विपर्यासं न्यसेद्यदि ॥५७।। स विपत्ति समाप्नोति सत्यं सत्यं न संशयः। अस्त्राय फडिति न्यासमापादतलमस्तकम् ॥५८।। षष्णवत्यात्मके देहे प्रकाशार्थ प्रचोदयात् । लोकत्रयेण दिग्बन्धं ततो मन्त्राः(न्)प्रदर्शयेत् ॥५६॥ हंससिंहासनं वह्निविश्वयोनिस्तथैव च । खेचरी कुण्डलीकुण्डं सप्तव्याहृतिमुद्रिका ॥६०|| सुमुखं संपुटं चैव विततं विस्तृतं तथा। द्विमुखं त्रिमुखं चैव चतुःपञ्चमुखं तथा ॥६॥ षण्मुखाधोमुखं चैव व्यापकाञ्जलिकं तथा। शकटं यमपाशं च प्रथितं(चोन्मु)सम्मुखोन्मुखम् ॥६२।। प्रलम्बं मुष्टिकं चैव मत्स्यकूर्मवराहकौ । सिंहाक्रान्तां महाक्रान्तं मुद्गरं पल्लवं तथा ॥६३॥ एते मुद्राश्चतुर्विंशा गायत्री सुप्रतिष्ठिता । इति मुद्रां न जानाति गायत्री निष्फला भवेत् ॥६४॥ ध्यानं मुक्ताविद्रुम हेमनीलधवलच्छायैर्मुखैः-भजे । तारं तुर्यपादं चोक्त्वा बीजशक्तिं च कीलकम् ॥६।। त्रीणि त्रीणि विधाप्रोक्त क्रमादृष्यादिकं न्यसेत् ।। पूर्णगायत्रिया देव्याः प्रसादे विनियुज्यते ॥६६॥