________________
प्रणवोपासनाकेसन्ध्याविधि २६५५ तत्रापि कुम्भकं कृत्वा प्राणायाम समाचरेत्।। सूर्योदयं समारभ्य घटिकाद्वादशोपरि ॥१७॥ ब्रह्मयज्ञाङ्गकस्नानं अपराह्न तु तर्पयेत् । सङ्कल्प्य ब्रह्मयज्ञं च यथाशक्ति समाचरेत् ॥६८।। माध्याहिकं प्रकुर्वीत जपान्ते तर्पयेत्तथा। यन्त्रहीनं जलस्नानं बीजहीनं तु यन्त्रकम् ॥६६|| बिन्दुहीनं तु यद्वीजं वृथा स्नानं न संशयः । मन्त्रहीनो जले स्नात्वा सन्ध्यावन्दनमाचरेत् ॥१००।। अशुचेस्तस्यमनसो मलिनं नैव गच्छति । मन्त्रयन्त्रविहीनो यः स्नानं सन्ध्यां करोति चेत् ॥१०॥ विफलं मन्त्रतेजस्स्यात्सत्यं सत्यं न संशयः । पञ्चस्नानं विना येन सायं सन्ध्या कृता यदि ॥१०२।। तस्य पापं न गच्छेत यथा सुर्येऽस्तगे तमः । परिधाय शुभं वस्त्रं तिलकं धारयेत्ततः ॥१०३।।
॥पुण्डधारणम्॥ गुरूपदेशमार्गेण अन्यथा धर्मघातकः। मृद्वारिचन्दनं भस्म वामहस्ते निधापयेत् ॥१०४।। त्रिकोणयन्त्रसंलेख्य मध्ये मायां स बिन्दुकाम् । कोणाग्रे प्रणवं लेख्यं दण्डेषु व्याहृतित्रयम् ॥१०॥ अभिमन्त्र्य तु गायत्रं मन्त्रराजं दशावधि । ललाटे तिलकं कुर्याद्गुरुराजापुरम्सरम् ॥१०७॥