________________
श्राद्धवर्णनम्
२५०३ अग्नौकरण शेषं तु पितृपात्रेषु दीयते । प्रतिपाद्यपितॄणां तु नो दद्याद्वश्वदेविके ॥१२॥ यत्तुपाणितले दत्तं पूर्वमयं(१)तु सिद्धयः । पितरस्तन्न गृहति शेषान्नं न लभन्ति च ॥१२६।। अध्यंपात्रस्थिता दर्भाः ब्राह्मणो शानदुर्बलः। स्वयं गृह्णन् क्षिपेद्यस्तु स भवेपितृघातकः ॥१२७॥ पाणौ होमस्य ये दर्भा पात्राधस्तु विनिक्षिपेत् । पुनरमी च तान्हुत्वा दहति पितरस्तथा ॥१२८।। न जीवपितृकः कुर्याच्छाद्धं मातृक्षयाहते। क्रान्ते च नवमी श्राद्धं मृते चैव विलुप्यते ॥१२६।। न छायां भार्गवे दीने मातापित्रोःक्षयेऽहनि । तिलैस्तु तपणं कुर्यात् पितृहासोऽपि जायते ॥१३०॥ कन्यायां तु गते भानौ पितरो यान्ति स्वं गृहम् । पितृलोकं परित्यज्य यावद श्चिकदशनात् ।।१३।। चन्दनागरुकर्पूरं कुंकुमं च प्रदापयेत् । अश्वमेधफलं तस्य पितृणां च विलेपनम् ॥१३२॥ रविशुक्रत्रयोदश्यां सप्तम्यां निशिसंध्ययोः। तिलतर्पणसंयोगात्तज्जलं रुधिरं भवेत् ॥१३३॥ क्षयाहे पातसंक्रान्ते ग्रहणे शशिभास्करे। न वारतिथिदोषो न कुर्याञ्चतिलतर्पणं ॥१३४॥ घृतं गुग्गुलु धूपं च पितॄणां यः प्रयन्छति । अश्वमेध फलं तस्य धूपदानस्तथैव च ॥१३।।