________________
૨૦૨૨
लघुयमस्मृतिः। पूर्व कृत्वा द्विजः शौचं पश्चादप उपस्पृशेत् । अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥५ निगिरन्यदि मेहेत भुक्त्वा वा मेहने कृते । अहोरात्रोषितो भूत्वा जुहुयात्सर्पिषाऽऽहुतीः॥६ यदा भोजनकाले स्यादशुचिर्ब्राह्मणः क्वचित् । भूमौ निधाय तद्ग्रासं स्नात्वा शुद्धिमवाप्नुयात् ॥७ भक्षयित्वा तु तद्ग्रासमुपवासेन शुध्यति । अशित्वा चैव तत्सर्व त्रिरात्रेणैव शुध्यति ।।८ अश्नतश्चेद्विरेकः स्यादस्वस्थ स्त्रिशतं जपेत् । स्वस्थस्त्रीणि सहस्राणि गायत्र्याः शोधनं परम् ।। चण्डालैः श्वपः स्पृष्टो विण्मूत्रे तु कृते द्विजः । त्रिरात्रं तु प्रकुर्वांत भुक्त्वोच्छिष्टः षडाचरेत् ॥१० उदक्यां सूतिका वाऽपि संस्पृशेदन्त्यजो यदि । त्रिरात्रेण विशुद्धिः स्यादिति शातातपोऽब्रवीत् ॥११ रजस्वला तु संस्पृष्टा श्वमातङ्गादिवायसैः । निराहारा शुचिस्तिष्ठत्कालस्नानेन शुध्यति ॥१२ रजस्वले यदा नार्यावन्योन्यं स्पृशते(तः) कचित् । शुध्यतः पश्चगव्येन ब्रह्मकूर्चेन चोपरि ॥१३ उच्छिष्टेन च संस्पृष्टा कदाचित्नी रजस्वला । कृच्छ्रण शुद्धिमाप्नोति शूद्रा दानोपवासतः ॥१४ अनुच्छिष्टेन संस्पृष्टे स्नानं येन विधीयते । तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥१५