SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] गणहोमफलमेतदध्यापनादौ फलनिरूपणच १८७७ अथ चतुर्थप्रश्नेष्टमोऽध्यायः। अथ गणहोमफलमेतध्यापनादौ फलनिरूपणञ्च । अतिलोभात्प्रमादाद्वा यः करोति क्रियामिमाम् । अन्यस्य सोऽहसाविष्टो गरगीरिव सीदति ॥१ आचार्यस्य पितुर्मातुरात्मनश्च क्रियामिमाम् । कुर्वन्भात्यर्कवद्विप्रः सा कार्येषामतः क्रिया ॥२ क एतेन सहस्राक्षं पवित्रेणाकरोच्छुचिम् । अग्नि वायु रविं सोमं यमादींश्च सुरेश्वरान् ॥३ यत्किंचित्पुण्यनामेह त्रिषु लोकेषु विश्रुतम् । विप्रादि तत्कृतं केन पवित्रक्रिययाऽनया ॥४ प्राजापत्यमिदं गुह्यं पापघ्नं प्रथमोद्भवम् । समुत्पन्नान्यतः पश्चात्पवित्राणि सहस्रशः ॥५ योऽन्दायनर्तुपक्षाहा होत्यष्टौ गणानिमान् । पुनाति चाऽऽत्मनो वंश्यान्दश पूर्वान्दशापरान् ॥६ ज्ञायते चामरैथुस्थैः पुण्यकर्मेति भूस्थितः। देववन्मोदते भूयः स्वर्गलोकेऽपि पुण्यकृत् ॥७ एतानष्टौ गणान्होतुं न शक्नोति यदि द्विजः । एकोऽपि तेन होतव्यो रजस्तेनास्य नश्यति ॥८ सूनवो यस्य शिष्या वा जुह्वत्यष्टौ गणानिमान् । अध्यापनपरिक्रीतैरंहसः सोऽपि मुच्यते ॥8 धनेनापि परिक्रीतैरात्मपापजिघांसया । हावनीया ह्यशक्तेन नावसाद्यः शरीरधृक् ॥१०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy