________________
१८७६ बौधायनस्मृतिः।
[सप्तमोअथ चतुर्थपूश्ने सप्तमोऽध्यायः ।
अथ वेद पवित्राणामभिधानवर्णनम् निवृत्तः पापकर्मभ्यः प्रवृत्तः पुण्यकर्मसु ।। यो विप्रस्तस्य सिध्यन्ति विना यन्त्रैरपि क्रियाः ॥१ ब्राह्मणा ऋजवस्तस्माद्यद्यदिच्छन्ति चेतसा । तत्तदासादयन्त्याशु संशुद्धा ऋजुकर्मभिः ॥२ एवमेतानि यन्त्राणि तावत्कार्याणि धीमता । कालेन यावतोपैति विग्रहः शुद्धिमात्मनः॥३ एभिर्यन्त्रैविशुद्धात्मा त्रिरात्रोपोषितस्ततः। तदारभेत येनधि कर्मणा प्राप्तुमिच्छति ।।४ क्षापपित्रं सहस्राक्षो मृगारांहोमुचौ गणौ । पावमानश्च कूष्माण्ड्यो वैश्वानर्य ऋचश्व याः ॥५ घृतौदनेन ता जुह्वत्सप्ताहं सवनत्रयम् । मौनव्रतो हविष्याशी निगृहीतेन्द्रिय : ॥६ सिंहे म इत्यपां पूर्णे पात्रेऽवेक्ष्य चतुष्पथे। मुच्यते सर्वपापेभ्यो महतः पातकादपि ॥७ वृद्धत्वे यौवने बाल्ये यः कृतः पापसंचयः। पूर्वजन्मसु वाऽज्ञातस्तस्मादपि विमुच्यते ॥८ भोजयित्वा द्विजानन्ते पायसेन सुसर्पिषा । गोभूमितिलहेमानि भुक्तवद्भ्यः प्रदाय च ॥६ विप्रो भवति पूतात्मा निर्दग्धवृजिनेन्धनः । काम्यानां कर्मणां योग्यस्तथाऽऽधानादिकर्मणाम् ॥१०
इति चतुर्थप्रश्ने सप्तमोऽध्यायः।