________________
ऽध्यायः]आत्मकृतदुरितोपशमाय प्रसृतयावकस्य हवनविधिव०१८५३
सर्व तरति सव जयति सर्वक्रतुफलमवाप्नोति सर्वेषु तीर्थेषु नानो भवति सर्वेषु वेदेषु चीर्णवतो भवति स सर्वैर्देवातो भवत्या चक्षुषः पक्तिं पुनाति कर्माणि चास्य सिध्यन्तीति बौधायनः ।।७
इति तृतीयप्रश्ने पञ्चमोऽध्यायः॥५
.
No
अथ तृतीयप्रश्ने षष्ठोऽध्यायः। आत्मकृतदुरितोपशमाय प्रसृतयावकस्य हवनविधिवर्णनम् ।
अथ कर्मभिरात्मकृतैर्गुरुमिवाऽऽस्मानं मन्येताऽऽत्मार्थे प्रसृतयावकं श्रपयेदुदितेषु नक्षत्रेषु ॥१ न ततोऽग्नौ जुहुयात् ॥२ न चात्र बलिकर्म ॥३ अशृतं श्रप्यमाणं शृतं चाभिमन्त्रयेत ॥४ यवोऽसि धान्यराजोऽसि वारुणो मधुसंयुतः। निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ।।५ घृतं यवा मधु यवा आपो यवा अमृतं यवाः। सर्व पुनीथ मे पापं यन्मया दुष्कृतं कृतम् ॥६ वाचा कृतं कर्मकृतं मनसा दुर्विचिन्तितम् । अलक्ष्मी कालरात्री च सर्व पुन(नी)थ मे यवाः॥७ महापातकसंयुक्तं दारुणं राजकिल्विषम् । बालवृद्धमधमं च सर्व पुन(नी)थ मे यवाः ।८