________________
१८४४
बौधायनस्मृतिः। [ एकादशोअथातः सन्ध्योपासनविधि व्याख्यास्यामः ॥११ न पिण्डशेषम् ॥१२ तपस्यवगाहनम् ॥१३ अब्राह्मणस्य शारीरो दण्डः ॥१४ नित्योदकी नित्ययज्ञोपवीती ॥१५ अथ पतनीयानि ॥१६ अथातः प्रायश्चित्तानि ॥१७] . कोष्ठान्तर्गतो ग्रन्थ एतत्प्रश्नगतप्रथमादि दशमान्त.ध्यायस्थादिममध्यमवाक्यानां व्युत्क्रमेण परिगणनात्मक इतिबोध्यम् ।
इति द्वितीय प्रश्नः।
अथ तृतीयः प्रश्नः। तत्र प्रथमोऽध्यायः।
अथ शालीनयायावरादीनां धर्मनिरूपणम् । अथ शालीनयायावरचक्रचरधर्मकाड्डिणां नवभिर्वृत्तिभिर्वर्तमानानाम् ॥१ तेषां तद्वर्तनावृत्तिरित्युच्यते ॥२ शालाश्रयत्वाच्छालीनत्वम् ॥३ वृत्त्या वरया यातीति यायावरत्वम् ॥४ अनुक्रमेण चरणाचक्रचरत्वम् ॥५ ता अनुव्याख्यास्यामः॥६ पनवर्तनी कौहाली ध्रुवा संप्रक्षालनी समूहा पालनी शिलोब्छा कापोता सिद्धच्छेति नवैताः ॥७