________________
१७६८ ... बौधायनस्मृतिः। [एकादशोअथाप्युदाहरन्ति ॥१६ क्रीता द्रव्येण या नारी सा न पत्नी विधीयते।। सा न देवे न सा पिश्ये दासी तां काश्यपोऽब्रवीत् ॥२० शुल्केन ये प्रयच्छन्ति स्वसुतां लोभमोहिताः। आत्मविक्रयिणः पापा महाकिल्विषकारकाः॥२१ पतन्ति नरके घोरे घ्नन्ति चाऽऽसप्तमं कुलम् ।
गमनागमनं चैव सर्व शुल्को विधीयते (१) ॥२२ पौर्णमास्यष्टकामावास्याग्न्युत्पातभूमिकम्पश्मशानदेशपतिश्रोत्रियैकतीर्थ्यप्रयाणेष्वहोरात्रमनध्यायः॥२३ .. वाते पूतिगन्धे नीहारे च नृत्तगीतवादित्ररुदितसामशब्देषु तावन्तं कालम् ।।२४ स्तनयिलुवर्षविधुत्संनिपाते व्यहमनध्यायोऽन्यत्र वर्षाकालात्॥ वर्षाकालेऽपि वर्षवर्जमहोरात्रयोश्च तत्कालम् ॥२६ पित्र्यप्रतिप्रहभोजनयोश्च तहिवसशेषम् ॥२७ भोजनेष्वाजीर्णान्तम् ॥२८
.. पाणिमुखो हि ब्राह्मणः ॥२६ अथाप्युदाहरन्ति ॥३० भुक्तं प्रतिगृहीतं च निर्विशेषमिति श्रुतिः ॥३१ पितयुपरते त्रिरात्रम् ।।३२ द्वयमु ह वै सुश्रवसोऽनूचानस्य रेतो ब्राह्मणस्योर्ध्व नाभेरधस्तादन्यत्स यदूर्ध्व नाभेस्तेन हैतत्प्रजायते यब्राह्मणानुपनयति यध्यापयति यद्याजयति यत्साधु करोति