________________
ऽध्यायः] अष्टविवाहप्रकरणवर्णनम् । १७६७
अंग प्रयाप्रश्ने एकादशोऽध्यायः।
अथाष्टविवाहप्रकरणवर्णनम् । अष्टौ विवाहाः॥१ . श्रुतशीले विज्ञाय ब्रह्मचारिणेऽर्थिने दीयते स ब्राह्मः ॥२ आच्छाद्यालंकृत्यैषा(तया) सह धर्मश्चर्यतामिति प्राजापत्यः ॥३ पूर्वा लाजाहुति हुत्वा गोमिथुनं कन्यावते दद्यात्स आर्षः ॥४ दक्षिणासु नीयमानास्वन्तर्ववृत्विजे स देवः॥५ . धनेलोपतोष्याऽऽसुरः॥६ सकामेन सकामाया मिथः संयोगो गान्धर्वः॥७ प्रसह्य हरणाद्राक्षसः॥८ सुप्तां मत्तां प्रमत्तां वोपयच्छेदिति पैशाचः॥ तेषां चत्वारः पूर्व ब्राह्मणस्य ॥१० तेष्वपि पूर्वः पूर्वः श्रेयान् ॥११ उत्तरेषामुत्तरोत्तरः पापीयान् ॥१२ अत्रापि षष्ठसप्तमौ क्षत्रधर्मानुगतौ तत्प्रत्ययत्वात्क्षत्रस्य ॥१३ पञ्चमाष्टमौ वैश्यशूद्राणाम् ॥१४ अयन्त्रितकलत्रा हि वैश्यशूद्रा भवन्ति ॥१५ कर्षणशुश्रूषाधिकृतत्वात् ॥१६ गान्धर्वमप्येके प्रशंसन्ति सर्वेषां स्नेहानुगतत्वात् ॥१७ यथायुक्तो विवाहः। यथा युक्तो विवाहस्तथा युक्ता प्रजा भवतीति विज्ञायते !