________________
ऽध्यायः] दण्डप्रकरणवर्णनम् ।
१७६५ अवध्यो वै ब्राह्मणः सर्वापराधेषु ॥१८ ब्राह्मणस्य ब्रह्महत्यागुरुतल्पगमनसुवर्णस्तेयसुरापानेषु कुसिन्धभगसृगालमुराध्वजास्तप्तेनायसा ललाटेयित्वा विषयानिर्धमनम् ॥१६
क्षत्रियादीनां ब्राह्मणवघे वधः सर्वस्वहरणं च ॥२० तेषामेव तुल्यापकृष्श्वधे यथाबलमनुरूपान्दण्डान्प्रकल्पयेत् ॥२१.
क्षत्रियवघे गोसहस्रम् ॥२२ क्षत्रियवधे गोसहस्रमृषभैकाधिकं राक्ष उत्सृजेद्वैरनिर्यातनार्थम् ॥२३. शतं वैश्ये दश शूद्र ऋषभश्चात्राधिकः ।।२४ शूद्रवधेन स्त्रीवधो गोवधश्च व्याख्यातोऽन्यत्राऽऽनेय्या वधात् ॥२५ धेन्वनडुहोश्च वधे धेन्वनडुहोरन्ते चान्द्रायणं चरेत् ॥२६ आत्रेय्या वधः क्षत्रियवधेन व्याख्यातः ॥२७ हंसभासबहिणचक्रवाकप्रचलाककाकोलूकमण्डूकडिड्डिकडेरिकाश्वबभ्र नकुलादीनां वधे शूद्रवत् ॥२८ लोकसंग्रहणार्थ यथा दृष्टं श्रुतं वा साक्षी साक्ष्यं ब्रूयात् ।।२९ पादो धर्मस्य कर्तारं पादो गच्छति साक्षिणम्। , पादः सभासदः सर्वान्पादो राजानमृच्छति ॥३० राजा भवत्यनेनाश्च मुच्यन्ते च सभासदः। एनो गच्छति कर्तारं यत्र निन्द्यो ह निन्द्यते ॥३१ ११३