________________
१७८६ बौधायनस्मृतिः।
पञ्चमोतान्यस्यै व्रतानि ॥१३६
वेदविक्रयिणं यूपं पतितं चितिमेव च । स्पृष्टा समाचरेत्स्नानं श्वानं चाण्डालमेव च ॥१४० ब्राह्मणस्य जगद्वारे पूयशोणितसंभवे । कृमिरुत्पद्यते तत्र प्रायश्चित्तं कथं भवेत् ।।१४१ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । त्र्यहं स्नात्वा च पीत्वा च कृमिदष्टः शुचिर्भवेत् ॥१४२ शुनोपहतः सचेलोऽवगाहेत ।।१४३ प्रक्षाल्य वा तं देशमनिना संस्पृश्य पुनः प्रक्षाल्य पादौचाऽऽचम्य प्रयतो भवति ॥१४४ अथाप्युदाहरन्ति ॥१४५
शुना दष्टस्तु यो विप्रो नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ।।१४६ सुवर्णरजताभ्यां वा गवां शृङ्गोदकेन वा । नवैश्च कलशैः स्नात्वा सद्य एव शुचिर्भवेत् , इति ॥१४७ अभक्ष्याः पशवो ग्राभ्याः॥१४८ क्रव्यादाः शकुनयश्च ।।१४६ तथा कुक्षुटसूकरम् ॥१५० अन्यत्राजाविभ्यः॥१५१ भक्ष्याः श्वाविड्गोधाशशशल्यकक.च्छपखड्गाः खड्गवर्जाः पश्च पश्चनखाः ॥१५२ तथय॑हरिणपृषतमहिषवराहकुलङ्गाः कुलवङ्गवर्जाः पञ्चद्विखुरिणः ॥१५३