SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ १७६४ चतुर्विंशो - लघ्वाश्वलायनस्मृतिः । चतुर्विंशोऽध्यायः । अथ श्राद्धोपयोगिप्रकरणम् । पितृयज्ञमकृत्वा तु पित्रोरेकाब्दिकं यदि । यज्ञान्यः कुरुते पथ्च स याति नरकं ध्रुवम् ॥१ कुरुते ब्रह्मयज्ञं च श्राद्धात्पूर्वं मृतेऽहनि । निराशाः पितरस्तस्य श्राद्धान्नं न लभन्ति ते ॥२ तर्पणं कुरुते पित्रोः श्राद्धात्पूर्वं मृतेऽहनि । निराशाः पितरस्तस्य स च गच्छेदधोगतिम् ॥३ कुर्यात्पश्च महायज्ञानिवृत्ते श्राद्धकर्मणि । पित्रोराब्दिक एवाऽऽहुराचार्याः शौनकादयः ॥४ अनग्निको यदा ज्येष्ठः कनिष्ठः साग्निको यदि । अग्नौकरणहोमन्तु ज्येष्ठः कुर्यात्कथंचन ॥५ कनिष्ठस्य च गृह्माग्नावग्नाकरणहोमकम् । तदाज्ञयाऽप्रजः कुर्यादिति केचिद्वदन्ति हि ॥ ६ संसृष्टा भ्रातरो यत्र श्राद्ध े स्युर्यदि चैव हि । तत्रायं मुनिभिः प्रोक्तो विधिनैवान्यथा भवेत् ॥७ वहृचो ब्रह्मचारी वा तथैवानग्निकोऽपि वा । अग्नौकरणहोमाख्यं कुर्याच्चैव पितुः परे ॥८ पच्चै (ख) वा स्युर्द्विजाः शस्ता द्वौ च पित्रोमृतेऽहनि । द्वौ दैवेऽथ त्रयः पित्र्य एकैको वोभयत्र तु ॥ चत्वारश्चेद् द्विजाः श्राद्ध देवे चैको भवेत्तदा । त्रयः पित्र्ये भवन्त्येके वदन्त्येव हि संकटे ॥१०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy