SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ १७६२ लघ्वाश्वलायनस्मृतिः'। त्रिविंशो विसृजेत्पितृपात्रस्थं पिण्डानां पुरतो जलम् । स्वधोच्यतामनेनैव ततः पिण्डान्समुच्चरेत् ॥६२ वाजे वाजेऽथ मन्त्रोण कुर्याच्छ्राद्धविसर्जनम् । सव्यमंसं पितॄणां च देवानां दक्षिणं स्पृशेत् ॥६३ पठेदुच्चैरिमं मन्त्रमामा वाजस्य चैव हि । प्रदक्षिणत्रयं कुर्वन्भुञ्जतः पितृसेवितान् ॥६४ जलमर्चनपात्रस्थान्विसृजेदक्षतादिकान् । पुरतस्तेन पुत्रः स्युर्याति ब्रह्मपदं च हि ॥६५ ब्रह्मत्वं च प्रयातेभ्यो गृह्णीयादाशिषः शुभाः । भवत्प्रसादतो भूयाद्धनधान्यादिकं मम ॥१६ दातारो नोऽभिवर्धन्तां वेदाः संततिरेव नः । श्रद्धा च नो मा व्यगमद् बहु धे(दे)यं च नोऽस्त्विति ॥१७ अन्नं च नो बहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कंचन ॥६८ ततो विप्रास्तथैवेति प्रतिवचनमादरात् । वः पदं निर्दिशेयुस्ते ब्राह्मणाश्चैव नः पदे ॥88 स्वादुषं सद इत्युक्त्वा मन्त्रानुच्चैः पठेदथ । दक्षिणाभिमुखस्तिष्ठेद्विप्राणां पुरतश्च हि ॥१०० इहैवेति पठेन्मन्त्रं भुक्तवद्भिर्द्विजैः सह । संतुष्टा आशिषो दद्युभुक्तिमुक्तिप्रदाः शुभाः॥१०१ आयुः प्रजां धनं विद्यां स्वर्ग मोक्षं सुखानि च । प्रयच्छन्तु तथा राज्यं प्रीता नृणां पितामहाः ॥१०२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy