________________
१७१०
लघ्वाश्वलायनस्मृतिः ।
पतिवत्या (त्या)श्च दुर्भेद्यं प्रथमं स्याद्राजो यदि । पत्युस्तस्या भवेन्मृत्युः स्त्री (स्त्रि) पूर्वाहियमेषु च ॥ १४ मघाशक्रशिवादित्यवह्निभेषु च वा भवेत् । तत्रापि स्यान्महाशोको दरिद्रं चानपत्यता ||१५ तद्दोषपरिहारार्थं कुर्याच्छान्ति यथाविधि । तोषयेज्जपहोमाभ्यां तत्तदृक्षादिदेवताः ॥ १६ आचार्यादीन्समभ्यर्च्य भोजयेच्छ क्तितो द्विजान् । तदुद्दिश्य कृतेनाऽऽशु सर्वारिष्टं प्रणश्यति ॥१७ शान्तिकर्मविधानेन कृत्वाऽन्यस्मिन्दिने शुभे । गर्भाधानं ततः कुर्यादित्याचार्योऽब्रवीद्वचः ॥१८ अकृत्वा शान्तिकं कर्म न कुर्याद्गर्भसाधनम् । सर्वेषां शाखिनामेव विधिरेष उदाहृतः ॥ १६ इत्याश्वलायनधर्मशास्त्रे गर्भाधानप्रकरणम् ।
॥ चतुर्थोऽध्यायः ॥
अथ पुंसवनानवलोभनसीमन्तोन्नयनप्रकरणम् । कुर्यात्पुंसवनं मासि तृतीयेऽनवलोभनम् । सीमन्तोन्नयनं चैव चतुर्थे मासि तद्भवेत् ॥ १ नो चेत्षष्ठेऽष्टमे वाऽपि कर्तव्यं तद्वयं च हि । तावदेव भवेत्केचिद्यावत्स्याद्गर्भधारणम् ॥२
[ चतुर्थी