________________
१७०८
[ तृतीयो
लघ्वाश्वलायनस्मृतिः। तिष्ठभग्नेरुपस्थानं कुर्यादों च म इत्यथ । अभिवाद्य जपेद्देवीं कृतं कर्म निवेदयेत् ।।७५ शुभाशुभक्रियार्थं च दत्तं विप्राय यद्धनम् । तत्सर्व जगदीशस्य प्रीतये निश्चितं भवेत् ॥७६ हुतशेषं हविश्वाऽऽज्यं होगे दद्याश्च दक्षिणाम् । सुवर्ण च यथाशक्ति होमसाद्गुण्यहेतवे ॥७७ होमान्ते ब्रह्मणे दद्यायज्ञपात्राणि चैव हि । होमे चैव तु सर्वत्र प्रवदन्ति मनीषिणः ।।७८ दर्शके पूर्ववत्सवं विशेषस्त्वथ कथ्यते । अग्रीषोमपदस्थान इन्द्राग्नी(नि)पदमुच्चरेत् ।।७६ पालाशखादिराश्वत्थशम्युदुम्बरजास्तथा । समिधः खादिराः शस्ता होमकर्मसु चैव हि ॥८० इत्याश्वलायनधर्मशास्त्रे स्थालीपाकप्रकरणवर्णनम् ।
॥ तृतीयोऽध्यायः ॥
अथ गर्भाधानप्रकरणम्। गर्भाधानं द्विजःकुर्याहतौ प्रथम एव हि । चतुर्थदिवसाध्वं पुत्रार्थी दिवसे समे ॥१ चरं दारुणभं पौष्णं दस्राग्नी च द्विदैवतम् । श्राद्धाहं चैव रिक्तां च हित्वाऽन्यस्मिन्विधीयते ॥२