________________
सांतपनादि कृच्छ्रचान्द्रायणान्त विधि वर्णनम् । १६६३ पश्चगव्यं च गोक्षीरं दधि मूत्रं घृतं पयः। प्राश्यापरेऽह युपवसेत्कृच्छ्सांतपनं चरेत् ॥८१ पृथक्सांतपनं द्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासांतपनः स्मृतम् ।।८२ पर्णोदुम्बरराजीवविल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पू(प)र्णकृच्छ्र उदाहृतः ।।८३ तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ्रस्तु पावनः ।।८४ एकभक्तेन नक्तेन तथैवायाचितेन तु। उपवासेन चैकेन पादकृच्छू उदाहृतः ।।८५ कृच्छ्रातिकृच्छः पयसा दिवसानेकविंशतिम् । द्वादशाहोपवासेन पराकः परिकीर्तितः ॥८६ पिण्याकशाकतक्राम्बुसक्तूनां प्रतिवासरम् । एकरात्रोपवासश्च कृच्छ्रः सौम्यः प्रकीर्तितः ॥८७ एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् । तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः॥८८ तिथि वृद्धथा चरेत्पिण्डान्छुक्ले शिख्यण्डसंमितान् । एकैकं ह्रासयेत्पिण्डान्कृच्छ्चान्द्रायणं चरेत् ।।८६ यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् । इति देवल(ले) [न] कृतं धर्मशास्त्रं प्रकीर्तितम् ॥६०
समाप्तेयं देवलस्मृतिः।
.
.
.
.
.
.
.
.
.