SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ १६६२ देवलस्मृतिः । संपादयन्ति यद्विप्राः स्नानं तीर्थफलं तपः । संपादी क्रमते पापं तस्य संपद्यते फलम् ॥७१ प्रायश्चित्तं समाख्यातं यथोक्तं देवलेन तु । इतरेषामृषीणां च नान्यथा वाक्यमर्हथ ॥७२ सुवर्णदानं गोदानं भूमिदानं गवाह्निकम् । विप्रेभ्यः संप्रयच्छेत प्रायश्चित्ती विशुध्यति ॥७३ पश्वाद्दान्सहवासेन संभाषणसहाशनैः । संप्राश्य पञ्चगव्यं तु दानं दत्त्वा विशुध्यति ॥ ७४ एकद्वित्रिचतुःसंख्यान्वत्सरान्संवसेद्यदि । म्लेच्छवासं द्विजश्रेष्ठः क्रमतो द्रव्ययोगतः ॥७५ एकाहेन तु गोमूत्रं व्यनैव तु गोमयम् । त्र्यहात्क्षीरेण संयुक्तं चतुर्थे दधिमिश्रितम् ॥७६ पञ्चमे घृतसंपूर्ण पञ्चगव्यं प्रदापयेत् । पञ्चसप्तदशाहानि पञ्चदशाश्च विंशतिः ॥ ७७ संवासं च प्रवक्ष्यामि देहशुद्धिं द्विजन्मनाम् । पभ्वाहं पञ्चगव्यं स्यात्पादकृच्छ्र दशाहिके ॥७८ पराकं पञ्चदशभिर्विशेऽतिकृच्छ्रमेव च । उदरं प्रविशेद्यस्य पश्चगव्यं विधानतः ॥ ७६ यत्किंचिद्दुष्कृतं तस्य सर्वं नश्यति देहिनः । पश्च सप्ताष्ट दश वा द्वादशाहोऽपि विंशतिः । म्लेच्छनतस्य विप्रस्य पञ्चगव्यं विशोधनम् ॥८०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy