________________
ॐ तत्सब्रह्मणे नमः ।
॥ अथ ॥
* ॥ देवलस्मृतिः ॥*
श्रीगणेशाय नमः |
.........
अथ प्रायश्चित्तवर्णनम् ।
सिन्धुतीरे सुखासीनं देवलं मुनिसत्तमम् । समेत्य मुनयः सर्वे इदं वचनमब्रुवन् ॥१ भगवन्म्लेच्छनीता हि कथं शुद्धिमवाप्नुयुः । ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राचैवानुपूर्वशः ॥२ कथं स्नानं कथं शौचं प्रायश्चित्तं कथं भवेत् । किमाचारा भवेयुस्ते तदाचक्ष्व सविस्तरम् ॥३ देवल उवाच
त्रिशङ्क' वर्जयेद्देशं सर्वं द्वादशयोजनम् । उत्तरेण महानद्या दक्षिणेन तु कीकटम् ॥४ प्रायश्चित्तं प्रवक्ष्यामि विस्तरेण महर्षयः ॥ ५