________________
भ्यायः] ब्राह्मणप्रशंसनवर्णनम्।
१६५३ यस्य देहे सदाश्नन्ति हव्यानि त्रिदिवौकसः। कव्यानि चैव पितरः किम्भूतमधिकं ततः ॥५४ यद्भुङ्क्ते वेदविद्विप्रः स्वकर्मनिरतः शुचिः। दातुः फलमसङ्ख्यातं प्रतिजन्म तदक्षयम् ॥५५ हस्त्यश्वरथयानानि केचिदिच्छन्ति पण्डिताः। अहं नेच्छामि मुनयः कस्यैताः शस्यसम्पदः ॥५६ वेदलाङ्गलकृष्टेषु द्विजश्रेष्ठेषु सत्सु च । यत्पुरा पातितं बीजं तस्यैताः सस्यसम्पदः ।।५७ शतेषु जायते शूरः सहस्रषु च पण्डितः ॥५८ वक्ता शतसहस्रेषु दाता भवति वा न वा। न रणे विजयाच्छूरोऽध्ययनान्न च पण्डितः ॥५६ न वक्ता वाक्पटुत्वेन न दाता चार्थदानतः। इन्द्रियाणां जये शूरो धर्म चरति पण्डितः॥६० हितप्रियोक्तिभिर्वक्ता दाता सम्मानदानतः ॥६१ यद्येकपङ्क्तयां विषमं ददाति स्नेहाद्भयाद्वा यदि वार्थहेतोः। वेदेषु दृष्टं ऋषिभिश्च गीतम् तद्ब्रह्महत्यां मुनयो वदन्ति ॥६२ उषरे वाऽपितं वीजं भिन्नभाण्डेषु गोदुहम । हुतं भस्मनि हव्यञ्च मूर्खे दानमशाश्वतम् ॥६३ मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजने। अहमेवं न जानामि कां योनि स गमिष्यति ॥६४ शूद्रान्नेनोदरस्थेन यदि कश्चिन्नियेत यः। स भवेत्च्छूकरो नूनं तस्य वा जायते कुलम् ॥६५