________________
१६२६
लघुव्याससंहिता। [द्वितीयोअथोनमः शिवायेति मन्त्रेणानेन वाचयेत् । नमस्कुर्यान्महादेव ममृतं परमेश्वरम् ॥४७ । निवेदयित्वा स्वात्मानं यो ब्रह्माणमतःपरम् । प्रदक्षिणन्ततः कुर्यात्ततो ब्रह्माणि वै जपेत् ॥४८ ध्यायेत देवमीशानं व्योममध्यगतं शुभम् । अथवालोकयेदक हंसः शुचिषदित्यूचा ॥४६ कुर्यात् पञ्चमहायज्ञान् गृहङ्गत्वा समाहितः । देवयज्ञं पितृयज्ञम्भूतयज्ञन्तथैव च ॥५० मनुष्यं ब्रह्मयज्ञश्च पश्चयज्ञान् प्रचक्षते । यदि स्यात्तर्पणादर्वाक् ब्रह्मयज्ञः कृतो न हि । कृत्वामनुष्य यज्ञं हि ततः स्वाध्यायमारभेत् ॥५१ अग्नेः पश्चिमतो देशे भूतयज्ञान्तरेऽथवा । कुशपूतैः समासीनं कुशपाणिः समाहितः ॥५२
औताग्नौ लौकिकेचापि जले भूम्या मथापिवा । वश्वदेवश्च कर्त्तव्यो वेदयज्ञः स संस्कृतः ॥५३ यदि स्याल्लौकिके पक्वं तदन्नं तत्र हूयते । शालाग्नौ तत्रचेदग्नौ विधिरेषः सनातनः ॥५४ देवेभ्यश्च हुतादनाच्छेषाद्भूत बलिं हरेत् । श्वभ्यश्च श्वपदेभ्यश्च पतितादिभ्य एव च ॥५५ दद्याद्भमा भूत बलिं क्रिमिभ्योऽथ द्विजोत्तमः । सायन्तनस्य सिद्धस्य पक्कमन्नं बलिं हरेत् ॥५६