________________
ऽध्यायः] सफलं स्नानवर्णनम् ।
१६१६ मृषीणां कुर्वतां नित्यं प्रातःस्नानं न संशयः । मुखे सुप्तस्य सततं लालानित्यं स्रवन्ति हि ॥५ ततो नैवाचरेत्कर्माण्यकृत्वा स्नानमादितः। अलक्ष्मी कालकर्णी च दुःस्वप्नं दुर्विचिन्तनम् ॥६ प्रातःस्नानेन पूयन्ते सर्वपापान संशयः। न हि स्नानं विना पुंसां प्राशस्त्यं कर्मसु स्मृतम् ।।७ होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् । अशक्तोऽवशिरस्कं वा स्नानमात्रं विधीयते ।।८ आद्रेण वाससा चाङ्गमार्जनं कापिलं स्मृतम् । अप्राशस्त्ये समुत्पन्ने स्नानमेव समाचरेत् ॥ ब्राह्मचादीन्यथवाशक्तौ स्नानान्याहुर्मनीषिणः । ब्राह्ममाग्नेय मुद्दिष्टं बायव्यं दिव्यमेव च ॥१० वारुणं यौगिकं चैव सदा स्नानं प्रकीर्तितम् । ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकविन्दुभिः ॥११ आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् । यत्तु सातपवर्षण तत स्नानं दिव्यमुच्यते ॥१२ वारुणञ्चावगाहञ्च मानसञ्चात्मवेदनम्। यौगिकं स्नानमाख्यातं योगोऽयं विष्णुचिन्तनम् ॥१३ आत्मतीर्थमिदं ख्यातं सेवितं ब्रह्मवादिभिः । मनःशुद्धिकरं पुंसां नित्यं तत् स्नानमाचरेत् ॥१४ शक्तश्चेद्वारुणं विद्वानप्राशस्त्ये तथैव च । प्रक्षाल्य दन्तकाष्ठञ्च भक्षयित्वा विधानतः ।।१५ १०२