________________
ऽध्यायः] राजधर्माभिधानवर्णनम् । १५१७
व्रणद्वारे कृमिर्यस्य संभवेत कदाचन। .. प्राजापत्येन शुध्येत हिरण्यं गौर्वासो दक्षिणा, इति ॥१४ नाग्नि चित्वा रामामुपेयात् ॥१५ कृष्णवर्णा या रामा रमणायैव न धर्माय न धर्मायेति ॥१६
इति वासिष्ठे धर्मशास्त्रेऽष्टादशोऽध्यायः।
॥ अथैकोनविंशोऽध्यायः ॥
अथ राजधर्माभिधानवर्णनम् । स्वधर्मो राज्ञः पालनं भूतानां तस्यानुष्ठानात्सिद्धिः॥१ भयकारुण्यहानं जरामयं(य) वै तत्सत्रमाहुर्विद्वांस्तस्माद्गार्हस्थ्यानयमिकेषु पुरोहितं दध्यात् ।।२ विज्ञायते ॥३ ब्रह्मपुरोहितं राष्ट्रमध्नोतीति ॥४ उभयस्य पालनादसामर्थ्याच्च देशधर्मजातिकुलधर्मान्सर्वानेवैताननुप्रविश्य राजा चतुरो वर्णान्स्वधर्मे स्थापयेत् ।।५ तेष्वपचरत्सु दण्डं धारयेत् ॥६ दण्डस्तु देशकालधर्मवयोविद्यास्थानविशेषैहिंसाक्रोशयोः कल्प्य आगमादृष्टान्ताच्च ।।७ पुष्पफलोपगान्पादपान हिंस्यात्कर्षणकरणाथं चोगहन्यात् ।।८ गार्हस्थ्याङ्गानां च मानोन्माने रक्षिते स्याताम् ॥8