________________
१४८४
वसिष्ठस्मृतिः ।
उदयास्त्वासते येषां ये च केचिदनग्नयः । कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिण इति ॥ १६ गृहस्थाः श्रोत्रियाः पापाः सर्वे ते शूद्रधर्मिणः । इति वासिष्ठे धर्मशास्त्रे पञ्चमोऽध्यायः ।
[ षष्ठो
॥ षष्ठोऽध्यायः ॥
अथाचारप्रशंसा, हीनाचारस्य निन्दावर्णनम् । आचारः परमो धर्मः सर्वेषामिति निश्चयः । हीनाचारपरीतात्मा प्रेत्य चेह विनश्यति ||१ नैनं तपांसि न ब्रह्म नाग्निहोत्रं न दक्षिणाः । हीनाचारमितो भ्रष्टं तारयन्ति कथंचन ||२ आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षडभिरङ्गः । छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥ ३ आचारहीनस्य तु ब्राह्मणस्य वेदा: षडङ्गास्त्वखिलाः सयज्ञाः । कां प्रीतिमुत्पादयितुं समर्था अन्धस्य द्वारा इव दर्शनीयाः ||४ नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् । द्वेप्य(अ)क्षरे सम्यगधीयमाने पुनाति तद् यथावदिष्टम् ||५ दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥ ६ आचारात्फलते धर्ममाचारात्फलते धनम् । आचाराच्छ्रियमाप्नोति आधारो हन्त्यलक्षणम् ॥७