________________
१४३६ शङ्खस्मृतिः।
द्वादशोंहन्तुकामोऽपमृत्युं च घृतेन जुहुयात्तथा । श्रीकामस्तु तथा पद्म बिल्वैः काञ्चनकामुकः ॥२१ ब्रह्मवर्चसकामस्तु पयसा जुहुयात्तथा । घृतप्लुतैस्तिर्वहिं जुहुयात्सुसमाहितः ॥२२ गायत्र्ययुतहोमाञ्च सर्वपापैः प्रमुच्यते । पापात्मा लक्षहोमेन पातकेभ्यः प्रमुच्यते ॥२३ अभीष्टं लोकमाप्नोति प्राप्नुयात्काममीप्सितम् । गायत्री वेदजननी गायत्री पापनाशिनी ॥२४ गायत्र्या परमं नास्ति दिवि चेह च पावनम् । हस्तत्राणप्रदा देवी पततां नरकार्णवे ॥२५ तस्मात्तामभ्यसेनित्यं ब्राह्मणो नियतः शुचिः। गायत्रीजाप्यनिरतं हव्यकव्येषु भोजयेत् ॥२६ तस्मिन्न तिष्ठते पापमविन्दुरिव पुष्करे ॥२७ जपेप्ये नैव तु संसिध्येद् ब्राह्मणो नात्र संशयः। . कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥२८ उपांशु स्याच्छतगुणः साहस्रो मानसः स्मृतः। नोवैजपं बुधः कुर्यात्सावित्र्यास्तु विशेषतः ॥२६ सावित्रीजाप्यनिरतः स्वर्गमाप्नोति मानवः । गायत्रीजप्यनिरतो मोक्षोपायं च विन्दति ॥३० तस्मात्सर्वप्रयत्नेन स्नातः प्रयतमानसः । गायत्री तु जपेद्भत्या सर्वपापप्रणाशिनीम् ।।३१ इति शाश धर्मशास्त्रे द्वादशोऽध्यायः।