________________
ऽध्यायः] अघमर्षणविधिवर्णनम्।
बहिर्जानुरुपस्पृश्य एकहस्तापितैर्जलैः। सोपानत्क(समलाभिस्तथा तिष्ठन्नैव शुद्धिमवाप्नुयात् ॥१५ आचम्य च पुराप्रोक्तं तीर्थसंमार्जनं तु यत् । उपस्पुरोत्ततः पश्चान्मत्रेणानेन धर्मतः ॥१६ अन्तश्चरति भूतेषु गुहायां विश्वतोमुखः । त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् ॥१७ आचम्य च ततः पश्चादादित्याभिमुखो जलम् । उदु त्यं जातवेदसमिति मन्त्रण निक्षिपेत् ॥१८ एष एव विधिः प्रोक्तः संध्ययोश्च द्विजातिषु । पूर्वी संध्यां जपंस्तिष्ठेदासीनः पश्चिमा स्तथा ।।१६ ततो जपेत्पवित्राणि पवित्रं वाऽथ शक्तितः । ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुयुः ।।२० सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम् । येषां जपैश्च होमैश्च पूयन्ते मानवाः सदा ॥२१
इति शाङ्ख धर्मशास्त्रे दशमोऽध्यायः।
॥ अथ एकादशोऽध्यायः ॥
अथाघमर्षणविधिवर्णनम्। अघमर्पणं देवकृतं शुद्धवत्यस्तरत्समाः । कूष्माण्ड्यः पावमान्यश्च सावित्र्यश्च तथैव च ॥१