________________
॥ अथ ॥
-॥आपस्तम्बस्मृतिः॥
...०००... श्रीगणेशाय नमः।
- ::
॥ अथ प्रथमोऽध्यायः ॥ अथ गोरोधनादिविषये-गोहत्यायां च प्रायश्चित्तवर्णनम् ।
आपस्तम्बं प्रवक्ष्यामि प्रायश्चित्तविनिर्णयम् । दूषितानां हितार्थाय वर्णानामनुपूर्वशः ॥१ परेषां परिवादेषु निवृत्तमृषिसत्तमम् । विविक्तदेश आसीनमात्मविद्यापरायणम् ॥२ अनन्यमनसं शान्तं सत्वस्थं योगवित्तमम्। आपस्तम्बमृषि सर्वे समेत्य मुनयोऽब्रुवन् ॥३ भगवन् ! मानवाः सर्वेऽसन्मार्गेऽपिस्थिता यदा। चरेयुर्धर्मकार्याणां तेषां ब्रूहि विनिष्कृतिम् ॥४ यतोऽवश्यं गृहस्थेन गवादिपरिपालनम् । कृषिकर्मादि चापत्सु (वपने) द्विजामन्त्रणमेव च ॥५