SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ अण्डः] श्राद्धवर्णनम् पश्वङ्गानांनिरूपणवर्णनम् । १३८५ हृज्जिह्वा क्रोडमस्थीनि यकृवृक्को गुदं स्तनाः। श्रोणिस्कन्धसदापार्श्वे पश्वङ्गानि प्रचक्षते ॥४ एकादशानामङ्गानामवदानानि सङ्ख्यया । पार्श्वस्य वृक्कसक्थ्नोश्च द्वित्वादाहुश्चतुर्देश ।।५ चरितार्था श्रुतिः कार्या यस्मादप्यनुकल्पतः । अतोह्यार्चेन होमः स्याच्छागपक्षे चरावपि ॥६ अवदानानि यावन्ति क्रियेरन् प्रस्तरेपशोः।। तावतः पायसान् पिण्डान् पश्वभावेऽपि कारयेत् ॥७ औदनव्यञ्जनार्थन्तु पश्वभावेऽपि पायसम् । सद्रवं श्रपयेत्तद्वदन्वष्टक्येऽपि कर्मणि ।।८ प्राधान्य पिण्डदानस्य केचिदाहुर्मनीषिणः । गयादौ पिण्डमात्रस्य दीयमानत्वदर्शनात् ।।ह. भोजनस्य प्रधानत्वं वदन्त्यन्ये महर्षयः । ब्राह्मणस्य परीक्षायां महा(यज्ञ)यत्नप्रदर्शनात् ।।१० आमश्राद्धविधानस्य विना पिण्डैः क्रियाविधिः। तदालभ्याप्यनध्यायविधानश्रवणादपि ।।११ विद्वन्मतमुपादाय ममाप्येतद्धृदि स्थितम् । प्राधान्यमुभयोर्यस्मात्तस्मादेष समुच्चयः॥१२ प्राचीनावीतिना कार्य पित्र्येषु प्रोक्षणं पशोः । दक्षिणोद्वासनान्तश्च चरोनिर्वपणादिकम् ।।१३ सन्नपश्वावदानानां प्रधानार्थो न हीतरः । प्रधानं हवनञ्चैव शेषं प्रकृतिवद्भवेत् ।।१४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy