________________
१३७५
मण्डः सूतककर्मत्याज्यवर्णनम् ।
एकमेकागृहीताग्नेः प्रेतस्य विधिरिष्यते। स्त्रीणामिवाग्निदानं स्यादथातोऽनुक्तमुच्यते ॥१४
___ इति त्रयोविंशः खण्डः।
-
॥ चतुर्विशः खण्डः ॥ सूतकेकर्मत्यागः षोडशश्राद्धविधानवर्णनश्च । सूतके कर्मणां त्यागः सन्ध्यादीनां विधीयते। होमः श्रोते तु कर्तव्यः शुष्काने नापि वा फलैः ।।१ अकृतं हावयेत् स्मार्ते तदभावे कृताकृतम् । कृतं वा हावयेदन्नमन्वारम्भविधानतः ॥२ कृतमोदनशक्तादि तण्डुलादि कृताकृतम् । बीमादि चाकृतं प्रोक्तमिति हव्यं त्रिधा बुधैः ॥३ सूतके च प्रवासे वा चाशक्तौ श्राद्धभोजने । एवमादिनिमित्तेषु हावयेदिति योजयेत् ॥४ न त्यजेत् सूतके कर्म ब्रह्मचारी स्वकं कचित् । न दीक्षण्यात् परं यज्ञे न कृच्छ्रादि तपश्चरन् ॥५ पितर्यपि मृते नैषां दोषो भवति कहिचित् । आशौचं कर्मणोऽन्ते स्याम्यहं वा ब्रह्मचारिणः॥६ श्राद्धमग्निमतः कार्या दाहादेकादशेऽहनि । प्रत्यान्दिकं तु कुर्वीत प्रमीताहनि सर्वदा ।।७ द्वादश प्रतिमास्यानि आधं पाण्मासिके तथा । सपिण्डीकरणचैव एतद्वै श्राद्धषोड़शम् ।।८