________________
१३०० याज्ञवल्क्यस्मृतिः। [द्वितीयो
अविज्ञातहतस्याशु कलहं सुतबान्धवाः । प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥२८३ स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह । मृत्युदेशसमासन्न पृच्छेद्वापि जनं शनैः ।।२८४ क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः । राजपत्ल्यभिगामी च दधव्यास्तु कटाग्निना ।।२८५
___ इति स्तेयप्रकरणवर्णनम् ।
-
अथ स्त्रीसंग्रहणप्रकरणवर्णनम् । पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रियाः। साधौ वा कामजैश्चिह्नः प्रतिपत्तौ द्वयोस्तथा ।।२८६ नीवीस्तनप्रावरण(नाभि)सक्थिकेशाभिमर्शनम् । अदेशकालसम्भाषां सहैकस्थानमेव च ॥२८७ स्त्रीनिषिद्धा शतं दद्याद् द्विशतन्तु दमं पुमान् । प्रतिषेधे द्वयोईप्डो यथा संग्रहणे तथा ।।२८८ स्वजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः । प्राविलोम्ये वधः पुंसः स्त्रीणां नासादिकर्त्तनम् ।।२८६ अलकृतां हरन् कन्यामुत्तमस्त्वन्यथाधमम् । दण्डं दद्यात् सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥२६०