SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Sम्यायः ] व्यवहाराध्यायः सामान्यन्यायप्रकरणवर्णनम् । १२७१ सपणश्चेद्विवादः स्यात्तत्र हीनन्तु दापयेत् । दण्डभ्य स्वपणं राज्ञे धनिने धनमेव च ॥ १८ छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥१६ निहते लिखितं नैकमेकदेशविभावितः । दाप्यः सर्व नृपेणाथं न प्राह्यस्त्वनिवेदितः ||२० स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः । अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥२१ प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् । एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥२२ सर्वेष्वथ विवादेषु बलवत्युत्तरा क्रिया । आधौ प्रतिगृहे क्रीते पूर्वा तु बलवत्तरा ॥२३ पश्यतो ब्रुवतो भूमे र्हानिविंशतिवार्षिकी । परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २४ आधिसीमोपनिःक्षेपजड़बालधनैर्विना । तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥ २५ आध्यादीनां हि हर्त्तारं धनिने दापयेद्धनम् । दण्डश्च तत्समं राज्ञे शक्त्यपेक्ष मथापि वा ॥ २६ आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात्। आगमोऽपि बलं नैव भुक्तिस्तोकापि यत्र नो ॥२७ आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् । न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥२८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy