SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १२४८ , याज्ञवल्क्यस्मृतिः। [प्रथमोजलं पिबेन्नाञ्जलिना शयानं न प्रबोधयेत् । नाक्षैः क्रीडेन्न धर्मध्नैयाधितर्वा न संविशेत् ।।१३८ विरुद्ध वर्जयेत् कर्म प्रेतधूमं नदीतरम् । केशभस्म तुषाङ्गार कपालेषु च संस्थितिम् ॥१३६ नाचक्षीत धयन्तीं गां नाद्वारेण विशेत् कचित् । न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छात्रवर्तिनः ॥१४० प्रतिग्रहे सूनिचक्रिवजिवेश्या नराधिपाः । दुष्टा दशगुणं पूर्वात् पूर्वादेते यथोत्तरम् ।।१४१ अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा । हस्तेनौषधि भावे वा पञ्चम्यां श्रावणस्य तु ॥१४२ पौषमासस्य रोहिण्यामष्टकायामथापि वा। जलान्ते च्छन्दसां कुर्यात्तदुत्सर्ग विधिं वहिः ॥१४३ त्र्यहं प्रतेष्वनध्यायः शिष्यविंग्गुरुबन्धुषु । उपाकर्मणि चोत्सर्ग स्वशाखाश्रोत्रिये मृते ॥१४४ सन्ध्यागजितनिर्घात भूकम्पोल्कानिपातने । समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥१४५ पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके । तुसन्धिषु भुक्ता वा श्राद्धिकं प्रतिगृह्य च ॥१४६ पशुमण्डूक नकुलमार्जारवाहि मूषिकैः । कृतेस्तरे त्वहोरात्रं शत्रु(शक्त)पाते तथोच्छ्रये ॥१४७ श्वक्रोष्टु गर्दभोलूकसामवाणानिःस्वने।। अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥१४८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy