SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ॥ अथ ॥ श्रीयाज्ञवल्क्यस्मृतिः । श्रीगणेशाय नमः | ॥ प्रथमोऽध्यायः ॥ अथाचाराध्यायः - उपोद्घातप्रकरणवर्णनम् । योगीश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥ १ मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् । यस्मिन् देशे मृगः कृष्ण स्तस्मिन् धर्म्मान्निबोधत ॥२ पुराणन्यायमीमांसा धर्म्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्म्मस्य च चतुर्दश ॥३ मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोङ्गिराः । यमापस्तम्बसम्बर्त्ता कात्यायनवृहस्पती ||४ पराशरत्र्यासशङ्खलिखिता दक्षगौतमौ । शातातपो वशिष्ठश्च धर्मशास्त्र प्रयोजकाः ॥ ५ देशकाल उपायेन द्रव्यं श्रद्धा समन्वितम् । पात्रे प्रदीयते यत्तत् सकलं धर्मलक्षणम् ||६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy