SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पराशरस्मृतिः। [तृतीयोशिल्पिनः कारुका वैद्या दासीदासाश्च नापिताः । श्रोत्रियाश्चैव राजानः सद्यः शौचाः प्रकीर्तिताः ॥२७ सबती मन्त्रपूतश्च आहिताग्निश्च यो द्विजः। राज्ञश्च सूतकं नास्ति यस्य चेच्छति पार्थिवः ॥२८ उद्यतो निधने दाने आतॊ विपो निमन्त्रितः। तदेव ऋषिभिई यथाकालेन शुद्धचति ।।२६ . पूसवे गृहमेधी तु न कुर्याद सङ्करं यदि । दशाहाच्छुद्धयते माता अबगाह्य पिता शुचिः ॥३० सर्वेषां स्रावमाशौच मातापित्रोदशाहिकं । सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥३१ यदि पत्ल्यां पसूतायां सम्पर्क कुरुते द्विजः। सूतकन्तु भवेत्तस्य यदि विपः षडङ्गवित् ॥३२ सम्पर्काजायते दोषो नान्यो दोषोऽस्ति ब्राह्मणे । तस्मात् सर्वप्रयत्नेन सम्पर्क वर्जयेद्विजः ॥३३ विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । पूर्व सङ्कल्पितं द्रव्यं दीयमानं न दूष्यति ॥३४ अन्तरा तु दशाहस्य पुनर्मरणजन्मनी । तावत् स्यादशुचिविपोयावत्तत् स्यादनिर्दशम् ।।३५ ब्राह्मणार्थे विपन्नानां वन्दिगीग्रहणे तथा । आहवेषु विपन्नानामे करात्रन्तु सूतकम् ॥३६ द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदकौ। परिब्राड्योगयुक्तश्च रणे चाभिमुखे हतः ॥३७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy