________________
१२३२
वृद्धहारीतस्मृतिः। [अष्ठमोप्रसादस्तीसेवा च तदीयानाञ्च पूजनम् । उपायान्तर सन्त्यागस्तथा मन्त्रार्थ चिन्तनम् ॥३३५ श्रवणं कीर्तनं सेवा सत्कृत्यकरणं तथा । असत्कृत्य परित्यागो विषयान्तरवर्जनम् ॥३३६ दानं दम स्तपः शौच मार्जवं क्षान्तिरेव च। आनृशंस्यं सता सङ्गः पारमैकान्त्यहेतवः॥३३७ वैष्ववः परमैकान्ती नेतरो वैष्णवः स्मृतः। नावैष्णवो व्रजेन्मुक्ति बहुशास्त्रश्रुतोऽपि वा ॥३३८ वैष्णवो वर्णवाह्योऽपि गति विष्णोः परं पदम् । एतत्ते कथितं राजन् पारमैकान्त्यसिद्धिदम् ॥३३६ वैशिष्ट्यं वैष्णवं धर्मशास्त्रं वेदोपहितम् । विष्वक्सेनाय धात्रे च सम्प्रोक्तं परमात्मना ॥३४० विष्वक्सेनाय सम्प्रोतमेतद्विधनसे पुरा। भृगोः प्रोक्तं विघनसा भूगुणा च महर्षिणा ॥३४१ भूगुणा च (वैवस्वत) मनोः प्रोक्तं मनुना च ममेरितम् । मनुस्तु धर्मशास्त्रन्तु सामान्येनोक्तवान् स्वयम् ॥३४२ वदेव हि मया राजन् ! वैशिष्येण तवरितम् । विशिष्टं परमं धर्मशास्त्रं वैष्णवमुत्तमम् ॥३४३ य इदं शृणुयाद्भक्त्या कथयेद्वा समाहितः। पारमैकान्त्य संसिद्धि प्राप्नोत्येव न संशयः ॥३४४ सर्वपापविनिर्मुक्तों याति विष्णोः परं पदम् । यस्त्विदं श्रृणुयाद्भक्त्या नित्यं विष्णोश्च सन्निधौ ॥३१५