________________
११५०
वृद्धहारीतरमृतिः ।
अकामतश्चरेद्धमं पापं मनसि चोच्यते । आज्ञापयिताऽनुमन्ताऽनुग्राहकस्तथैव च ॥ २३७ उपेक्षिताऽशक्तिमांश्चेत्पादोनं व्रतमाचरेत् । कामतस्तु चरेत् पूर्ण तत्रापि द्विगुणं गुरौ ॥ २३८ अन्तर्वस्त्यां तथा ऽऽत्रेय्यां तथैव व्रतमाचरेत् । आचार्ये च वनस्थेन मातापित्रोर्गुरौ तथा ॥२३६ तपरिवनि ब्रह्मविदि द्विगुणं व्रतमाचरेत् । यावत्स्वक्षत्त्रियं वैश्य ं विशिष्टं शूद्रमेव च ॥ २४० कपिलां गर्भिगीङ्गाश्च हत्वा पूर्णव्रतं चरेत् । अकामतस्तु तेष्वधं मुनिभिः सम्प्रकीर्तितम् || २४१ विधेः प्राथमिकादस्माद् द्वितीये द्विगुणं चरेत् । तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृतिः ॥ २४२ चतुर्णामाश्रमाणाश्च शौचवत् साधनं चरेत् । प्रायश्चित्तान्तरं मध्ये केचिदिच्छन्ति सूरयः ॥ २४३ गोब्राह्मणपरित्राण मश्वमेधावभृथं तथा । इयं विशुद्धिरुदिता प्रहृत्या कामतो द्विजान् ॥ २४४ अग्निप्रपतनं केचिदिच्छन्ति मुनिसत्तमाः । लोमभ्यः स्वाहेत्यादि मन्त्रैर्हुत्वा पृथक् पृथक् ॥ २४५ अवाक्शिराः प्रविश्याग्नौ दग्धः शुद्धो भवेन्नरः । अकामतः सुरां पीत्वा मद्यं वाऽपि द्विजोत्तमः || २४६ पूर्ववद् द्वादशाब्दानि चरेद् व्रतमचिह्नितम् । जपित्वा दशसाहस्रं त्रिसन्ध्यासु निरन्तरम् ॥ २४७
[ षष्ठो